This page has been fully proofread once and needs a second look.

<page>
<verse lang="sa">कृष्णं सपाण्डुतनयं युधि शस्त्रजालैः
संकीर्णलेख्यमिव चित्रपटं क्षिपामि ॥ ६० ॥</verse>

<speaker>राजा - </speaker>मा मा भवानेवम् ।

<verse lang="sa">गतं धात्र्युत्संगे सकलमभिषिक्तं नृपकुलं
गतः कर्णः स्वर्गं निपतिततनुः शन्तनुसुतः ।
गतं भ्रातॄणां मे शतमभिमुखं संयुगमुखे
वयं चैवंभूताः गुरुसुत ! धनुर्मुञ्चतु भवान् ॥ ६१ ॥</verse>

<speaker>अश्वत्थामा - </speaker>भोः कुरुराज !

<verse lang="sa">संयुगे पाण्डुपुत्रेण गदापातकचग्रहे ।
सममूरुद्वयेनाद्य दर्पोऽपि भवतो हृतः ॥ ६२ ॥</verse>

<speaker>राजा - </speaker>मा मैवम् । मानशरीरा राजानः । मानार्थमेव मया निग्रहो
गृहीतः । पश्य गुरुपुत्र !

<pverse lang="sa">यत्कृष्टा करनिग्रहाञ्चितकचा द्यूते तदा द्रौपदी
यद्बालोऽपि हतस्तदा रणमुखे पुत्रोऽभिमन्युः पुनः ।
अक्षय्याजजिता वनं वनमृगैर्यत्पाण्डवाः संश्रिता
नन्वल्पं मयि तैः कृतं विमृश भो ! दर्पा<ref>१</ref>हृतं दीक्षितैः ॥ ६३॥</pverse>

<speaker>अश्वत्थामा- </speaker>सर्वथा कृतप्रतिज्ञोऽस्मि ।

<pverse lang="sa">भवता चात्मना चैव वीरलोकैः शपाम्यहम् ।
निशासमरमुत्पाद्य रणे धक्ष्यामि पाण्डवान् ॥ ६४ ॥</pverse>

<speaker>बलदेवः - </speaker>एतद्भविष्यत्युदाहृतं गुरुपुत्रेण ।

<speaker>अश्वत्थामा- </speaker>हलायुधोऽत्रभवान् ।

<speaker>धृतराष्ट्रः - </speaker>हन्त ! साक्षिमती खलु वञ्चना ।

<speaker>अश्वत्थामा - </speaker>दुर्जय ! इतस्तावत् ।

<footnote mark="१" lang="sa">दर्पव्रतं ।</footnote>
</page>