This page has not been fully proofread.

―i. 64.*]
 
प्रथमोऽङ्कः ।
 
कृष्णं सपाण्डुतनयं युधि शस्त्रजालैः
 
संकीर्णलेख्यमिव चित्रपट क्षिपामि ॥ ६० ॥
 
राजा - मा मा भवानेवम् ।
 
गतं धात्र्युत्संगे सकलमभिषिक्तं नृपकुलं
 
गतः कर्णः स्वर्गं निपतिततनुः शन्तनुसुतः ।
गतं भ्रातॄणां मे शतमभिमुखं संयुगमुखे
 
वयं चैवंभूताः गुरुमृत ! धनुर्मुञ्चतु भवान् ॥ ६१ ॥
 
अश्वत्थामा - भोः कुमराज !
 
संयुगे पाण्डुपुत्रेण गदापातकचग्रहे ।
 
सममूरुद्वयेनाद्य दर्पोऽपि भवतो हृतः ॥ ६२ ॥
 
५०७
 
राजा - मा मैवम् । मानशरीरा, राजानः । मानार्थमेव मया निग्रहो
 
गृहीतः । पश्य गुरुपुत्र !
 
यत्कुष्टा कर निग्रह चितकचा द्यूते तदा द्रौपदी
 
यालोऽपि हतस्तदा रणमुखे पुत्रोऽभिमन्युः पुनः ।
अक्षय्याजजिता वनं वनमृगैर्यत्पाण्डवाः संश्रिता
 
नन्वल्पं मयि तैः कृतं विमृश भो ! दर्पहृतं दीक्षितैः ॥ ६३॥
 
- सर्वथा कृतप्रतिज्ञोऽस्मि ।
 
अश्वत्थामा-
 
भवता चात्मना चैव वीरलोकैः शपाम्यहम् ।
 
निशा समरमुत्पाद्य रणे धक्ष्यामि पाण्डवान् ॥ ६४ ॥
 
बलदेवः - एतद्भविष्यत्युदाहृतं गुरुपुत्रेण ।
 
अश्वत्थामा- हलायुधोऽत्रभवान् ।
 
३ धृतराष्ट्रः - हन्त ! साक्षिमती खलु वचना ।
 
अश्वत्थामा- - दुर्जय ! इतस्तावत् ।
 
१. दर्पव्रतं ।
 
१९