2026-01-19 23:32:57 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<verse lang="sa">इह तु विजयभूमौ द्रष्टुमद्योद्यतास्त्रः
सरभसमहमेको द्रोणपुत्रः स्थितोऽस्मि ॥ ५७ ॥</verse>

किमनया ममाप्यप्रतिलाभविजयश्लाघया समरश्रिया । <stage>( परिक्रम्य )</stage>
मा तावन् । मयि गुरुनिवपनव्यग्रे वञ्चितः किल कुरुकुलतिलक-
भूतः कुरुराजः । के एतच्छ्रद्धास्यति । कुतः,

<pverse lang="sa">उद्यत्प्राञ्जलयो रथाद्विपगताञ्चापद्वितीयैः करै-
र्यस्यैकादशवाहिनीनृपतयस्तिष्ठन्ति वाक्योन्मुखाः ।
भीष्मो रामशरावलीढकवचस्तातश्च योद्धा रणे
व्यक्तं निर्जित एव सोऽप्यतिरथः कालेन दुर्योधनः ॥ ५८ ॥</pverse>

तत् क्वनु खलु गतो गान्धारीपुत्रः । <stage>( परिक्रम्यावलोक्य)</stage>
अये अयमभिहतगजतुरगनररथप्राकारमध्यगतः समरपयोधिपारगः
कुमराजः । य एषः,

<verse lang="sa">मौलीनिपातचलकेशमयूखजालै-
र्गात्रैर्गदानिपतनक्षतशोणितार्द्रैः ।
भा<ref>१</ref>त्यस्तमस्तकशिलातलसंनिविष्टः
सन्ध्यावगाढ इव पश्चिमकालसूर्यः ॥ ५९ ॥</verse>

<stage>( उपसृत्य ) </stage>भोः कुरुराज ! किमिदम् ।

<speaker>राजा - </speaker>गुरुपुत्र ! फलमपरितोषस्य ।

<speaker>अश्वत्थामा-</speaker>भोः कुरुराज ! सत्कारमूलमावर्जयिष्यामि

<speaker>राजा-</speaker>किं भवान् करिष्यति ।

<speaker>अश्वत्थामा-</speaker> श्रूयताम् ।

<verse lang="sa" merge-next="true">युद्धोद्यतं गरुडपृष्ठनिविष्टदेहं
स्पष्टाष्टभीमभुजमुद्यतशार्ङ्गचक्रम् ।</verse>
<footnote mark="१" lang="sa">यात्य ।</footnote>
</page>
<verse lang="sa">इह तु विजयभूमौ द्रष्टुमद्योद्यतास्त्रः
सरभसमहमेको द्रोणपुत्रः स्थितोऽस्मि ॥ ५७ ॥</verse>

किमनया ममाप्यप्रतिलाभविजयश्लाघया समरश्रिया । <stage>( परिक्रम्य )</stage>
मा तावन् । मयि गुरुनिवपनव्यग्रे वञ्चितः किल कुरुकुलतिलक-
भूतः कुरुराजः । के एतच्छ्रद्धास्यति । कुतः,

र्यस्यैकादशवाहिनीनृपतयस्तिष्ठन्ति वाक्योन्मुखाः ।
भीष्मो रामशरावलीढकवचस्तातश्च योद्धा रणे
व्यक्तं निर्जित एव सोऽप्यतिरथः कालेन दुर्योधनः ॥ ५८ ॥</