This page has not been fully proofread.

५०६
 
ऊरुभङ्गे
 
इह तु विजयभूमौ द्रष्टुमद्योद्यतास्त्रः
 
[i. 57. -
 
सरभसमहमेको द्रोणपुत्रः स्थितोऽस्मि ॥ ५७ ॥
 
किमनया ममाप्यप्रतिलाभविजयश्लाघया समरश्रिया । ( परिक्रम्य )
मा तावन् । मयि गुरुनिवपनव्यग्रे वचितः किल कुरुकुलतिलक-
३ भूतः कुरुराजः । के एतच्छ्रद्धास्यति । कुतः,
 
उद्यत्प्राञ्जलयो रथाद्विपगताञ्चापद्वितीयैः करै-
र्यस्यैकादशवाहिनीनृपतयस्तिष्ठन्ति वाक्योन्मुखाः ।
भीष्मो रामशरावलीढकवचस्तातश्च योद्धा रणे
 
व्यक्तं निर्जित एव सोऽप्यतिरथः कालेन दुर्योधनः ॥ ५८ ॥
तत् कनु खलु गतो गान्धारीपुत्रः । ( परिक्रम्यावलोक्य)
अये अयमभिहतगजतुरगनररथप्राकारमध्यगतः समरपयोधिपारगः
 
३ कुमराजः । य एषः,
 
मौलीनिपातचल केशमयूखजालै-
गोत्रैर्गदानिपतनक्षतशोणितार्द्रैः ।
भोत्यस्तमस्तकशिलातलसंनिविष्टः
 
सन्ध्यावगाढ इव पश्चिमकालसूर्यः ॥ ५९ ॥
 
( उपसृत्य ) भोः कुरुराज ! किमिदम् ।
 
राजा - गुरुपुत्र ! फलमपरितोषस्य ।
 
३ अश्वत्थामा-
 
राजा-
 
- भोः कुरुराज ! सत्कारमूलमावर्जयिष्यामि ।
- किं भवान् करिष्यति ।
 
अश्वत्थामा-
 
१. यात्य ।
 
- श्रूयताम् ।
 
युद्धोद्यतं गरुडपृष्ठ निविष्टदेहं
 
स्पष्टाष्टभीमभुजमुद्यतशार्ङ्गचक्रम् ।
 
१८