This page has been fully proofread once and needs a second look.

-i.57.1

प्रथमोऽङ्कः ।

<page>
<verse lang="sa">
श्लाघ्यश्रीरभिमानदीप्तहृदयो दुर्योधनो मे पिता

तुल्येनाभिमुखं रणे हत इति त्वं शोकमेवं त्यज ।

स्पृष्ट्रा चैव युधिष्ठिरस्य विपुलं क्षौमापसत्र्यं भुजं

५०५

देयं पाण्डुसुतैस्त्वया मम समं नामावसाने जलम् ॥ ५३ ॥
</verse>

<speaker>
बलदेवः - </speaker>अहो वैरं पश्चात्तापः संवृत्तः । अये शब्द इव ।

<verse>
सन्नाहदुन्दुभिनिनाद वियोगमूके

विक्षिप्तबाणकवच व्यजनातपत्रे ।

तस्यैष कार्मुकरवो हतसूतयोधे

विभ्रान्तवायसगणं गगनं करोति ॥ ५४ ॥
</verse>

<stage>
( नेपथ्ये )

</stage>

<verse lang="sa">
दुर्योधनेनात कार्मुकेण यो युद्धयज्ञः सहितः प्रविष्टः ।

तमेव भूयः प्रविशा<ref>१</ref>मि शून्यमध्वर्युणा वृत्तमिवाश्वमेधम् ॥ ५५ ॥
</verse>

<speaker>
बलदेवः - </speaker>अये अयं गुरुपुत्रोऽश्वत्थामेत एवाभिवर्तते । य एषः,

<verse>
स्फुटितकमलपत्र<error>म्प</error><fix>स्प</fix>ष्टविस्तीर्णदृष्टी

रुचिरकनकयूपन्व्यायतालम्बबाहुः ।

सरभसमयमुग्रं कार्मुकं कर्षमाणः

सदहन इव मेरुः शृङ्गलग्नेन्द्रचापः ॥ ५६ ॥
</verse>

<stage>
( ततः प्रविशत्यश्वत्थामा । )

</stage>

<speaker>
अश्वत्थामा - </speaker> <stage>( पूर्वोक्तमेव पठित्वा )</stage> भो भोः ! समरसंरम्भोभयबल-

जलधिसङ्गमसमयसमुत्थितशस्त्रनक्रकृत्तविग्रहाः स्तोकावशेषश्वासा-

नुबद्धमन्दप्राणाः समरश्लाघिनो राजानः ! शृण्वन्तु शृण्वन्तु भवन्तः ।

<verse merge-next="true">
छलबलदलितोरुः कौरवेन्द्रो न चाहं

शिथिलविफलशस्त्रः सूतपुत्रो न चाहम् ।

</verse>
<footnote mark="
. " lang="sa">प्रविशाम्य शून्य ० ।

ऊरु. २९

१७

</footnote>
</page>