2025-12-29 10:01:01 by ambuda-bot
This page has not been fully proofread.
-i.57.1
प्रथमोऽङ्कः ।
श्लाघ्यश्रीरभिमानदीप्तहृदयो दुर्योधनो मे पिता
तुल्येनाभिमुखं रणे हत इति त्वं शोकमेवं त्यज ।
स्पृष्ट्रा चैव युधिष्ठिरस्य विपुलं क्षौमापसत्र्यं भुजं
५०५
देयं पाण्डुसुतैस्त्वया मम समं नामावसाने जलम् ॥ ५३ ॥
बलदेवः - अहो वैरं पश्चात्तापः संवृत्तः । अये शब्द इव ।
सन्नाहदुन्दुभिनिनाद वियोगमूके
विक्षिप्तबाणकवच यजनातपत्रे ।
तस्यैष कार्मुकरवो हतसूतयोधे
विभ्रान्तवायसगणं गगनं करोति ॥ ५४ ॥
( नेपथ्ये )
दुर्योधनेनात कार्मुकेण यो युद्धयज्ञः सहितः प्रविष्टः ।
तमेव भूयः प्रविशामि शून्यमध्वर्युणा वृत्तमिवाश्वमेधम् ॥ ५५ ॥
बलदेवः - अये अयं गुरुपुत्रोऽश्वत्थामेत एवाभिवर्तते । य एषः,
स्फुटितकमलपत्रम्पष्टविस्तीर्णदृष्टी
रुचिरकनकयूपन्यायतालम्बबाहुः ।
सरभसमयमुग्रं कार्मुकं कर्षमाणः
सदहन इव मेरुः शृङ्गलग्नेन्द्रचापः ॥ ५६ ॥
( ततः प्रविशत्यश्वत्थामा । )
अश्वत्थामा - ( पूर्वोक्तमेव पठित्वा ) भो भोः ! समरसंरम्भोभयबल-
३ जलधिसङ्गमसमयसमुत्थितशस्त्रनक्रकृत्तविग्रहाः स्तोकावशेषश्वासा-
नुबद्धमन्दप्राणाः समरश्लाघिनो राजानः ! शृण्वन्तु शृण्वन्तु भवन्तः ।
छलबलदलितोरुः कौरवेन्द्रो न चाहं
शिथिलविफलशस्त्रः सूतपुत्रो न चाहम् ।
१. प्रविशाम्य शून्य ० ।
ऊरु. २९
१७