This page has been fully proofread once and needs a second look.

५०४

ऊरुभङ्गे

[i. 50. -

<page>
<verse lang="sa"><speaker>
राजा - </speaker>नमस्कृत्य वदामि त्वां यदि पुण्यं मया कृतम् ।

अन्यस्यामपि जात्यां मे त्वमेव जननी भव ॥ ५० ॥

</verse>

<speaker>
गान्धारी - </speaker>मम मणोरहो खु तुए भणिदो । <chaya>[ मम मनोरथः खलु

स्वया भणित: । ]

</chaya>

<speaker>
राजा - </speaker>मालवि ! त्वमपि शृणु ।

<verse lang="sa">
भिन्ना मे भ्रुकुटी गदानिपतितैर्व्यायुद्धकालोत्थितैः-

र्वक्षस्युत्पतितैः प्रहाररुधिरैर्हारावकाशो हृतः ।

पश्येमीमौ व्रणकाञ्चनाङ्गदधरौ पर्याप्तशोभौ भुजौ

भर्ता ते पराङ्मुखो युधि हतः किं क्षत्रिये ! रोदिषि ॥ ५१ ॥
</verse>

<speaker>
देवी - </speaker>बाळा एसा सहधर्मचारिणी रोदामि । <chaya>[ बाला एषा सहधर्म-

चारिणी रोदिमि । ]

</chaya>

<speaker>
राजा- - </speaker>पौरवि ! त्वमपि श्रृणु ।

<verse lang="sa">
वेदोक्तैर्विविधैर्मखैरभिमतैरिष्टं धृता बान्धवाः

शत्रूणामुपरि स्थितं प्रियशतं न व्यंसिताः संश्रिताः ।

युद्धेऽष्टादशवाहिनी नृपतयः संतापिता निग्रहे

मानं मानिनि ! वीक्ष्य मे न हि रुदन्त्येवंविधानां स्त्रियः ॥ ५२ ॥
</verse>

<speaker>
पौरवी - </speaker>एक्ककिदप्पवेस णिचआ ण रोदामि । [ एककृतप्रवेशनिश्चया

न रोदिमि । ]

<speaker>
राजा - </speaker>दुर्जय ! त्वमपि श्रुणु ।

<speaker>
धृतराष्ट्रः - </speaker>गान्धारि ! किं नु खलु वक्ष्यति ।

<speaker>
गान्धारी - </speaker>अहं पितं एव्व चिन्तेभि ।<chaya> [ अहमपि तदेव चिन्तयामि । ]
</chaya>

<speaker>
राजा - </speaker>अहमिव पाण्डवाः शुश्रूषयितव्याः, तत्रभवत्याश्वांबायाः

कुन्त्या निदेशो वर्तयितव्यः । अभिमन्योर्जननी द्रौपदी चोभे मातृ-

वत्पूजयितव्ये । पश्य पुत्र !

१६

</page>