2025-12-29 10:01:01 by ambuda-bot
This page has not been fully proofread.
५०४
ऊरुभङ्गे
[i. 50. -
राजा - नमस्कृत्य वदामि त्वां यदि पुण्यं मया कृतम् ।
अन्यस्यामपि जात्यां मे त्वमेव जननी भव ॥ ५० ॥
गान्धारी - मम मणोरहो खु तुए भणिदो । [ मम मनोरथः खलु
स्वया भणित: । ]
३ राजा - मालवि ! त्वमपि शृणु ।
भिन्ना मे भ्रुकुटी गदानिपतितैर्व्यायुद्धकालोत्थितैः-
र्वक्षस्युत्पतितैः प्रहाररुधिरैर्हारावकाशो हृतः ।
:
पश्येमी व्रणकाञ्चनाङ्गदधरौ पर्याप्तशोभौ भुजौ
भर्ता ते पराङ्मुखो युधि हतः किं क्षत्रिये ! रोदिषि ॥ ५१ ॥
देवी - बाळा एसा सहधर्मचारिणी रोदामि । [ बाला एषा सहधर्म-
चारिणी रोदिमि । ]
३ राजा- - पौरवि ! त्वमपि श्रृणु ।
वेदोक्तैर्विविधैर्मखैरभिमतैरिष्टं धृता बान्धवाः
शत्रूणामुपरि स्थितं प्रियशतं न व्यंसिताः संश्रिताः ।
युद्धेऽष्टादशवाहिनी नृपतयः संतापिता निग्रहे
मानं मानिनि ! वीक्ष्य मे न हि रुदन्त्येवंविधानां स्त्रियः ॥ ५२ ॥
पौरवी - एक्ककिदप्पवेस णिचआ ण रोदामि । [ एककृतप्रवेशनिश्चया
न रोदिमि । ]
३ राजा - दुर्जय ! त्वमपि श्रुणु ।
धृतराष्ट्रः - गान्धारि ! किं नु खलु वक्ष्यति ।
गान्धारी - अहं पितं एव्व चिन्तेभि । [ अहमपि तदेव चिन्तयामि । ]
६ राजा - अहमिव पाण्डवाः शुश्रूषयितव्याः, तत्रभवत्याश्वांबायाः
कुन्त्या निदेशो वर्तयितव्यः । अभिमन्योर्जननी द्रौपदी चोभे मातृ-
वत्पूजयितव्ये । पश्य पुत्र !
१६