This page has not been fully proofread.

―i.49.2]
 
प्रथमोऽङ्कः ।
 
५०३
 
गान्धारी - महाराअ ! अहमभीदपुत्तप्पसविणी । [ महाराज !
 
६ अहमभीतपुत्रप्रसविनी । ]
 
राजा - अद्योत्पन्नमिवात्मानमवगच्छामि । भोस्तात किमिदानीं
वैन्येन ।
 
धृतराष्ट्रः - पुत्र कथमेविक्लवो भविष्यामि ।
 
यस्य वीर्यबलोत्सिक्तं संयुगाध्वरदीक्षितम् ।
 
पूर्वं भ्रातृशतं नष्टं त्वरयेकस्मिन्हते हतम् ॥ ४६ ॥
 
( पतति । )
 
राजा - हा धिक् । पतितोऽत्रभवान् । तात ! समाश्वासयात्र-
३ भवतीम् ।
 
धृतराष्ट्र : - पुत्र ! किमिति समाश्वासयामि ।
 
राजा - अपराङ्मुखो युधि हत इति । भोस्तात ! शोकनिग्रहेण
६ क्रियतां ममानुग्रहः ।
 
त्वत्पादमात्रप्रणताप्रमौलिर्ज्वलन्तमप्यग्निमचिन्तयित्वा ।
येनैव मानेन समं प्रसूतस्तेनैव मानेन दिवं प्रयामि ॥ ४७ ॥
 
धृतराष्ट्रः-
 
वृद्धस्य मे जीवितनिःस्पृहस्य निसर्गसंमीलितलोचनस्य ।
धृतिं निगृह्यात्मनि संप्रवृत्तस्तीत्रस्समाक्रामति पुत्रशोकः ॥ ४८ ॥
बलदेवः - भोः ! कष्टम् ।
 
दुर्योधननिराशस्य नित्यास्तमितचक्षुषः ।
 
न शक्नोम्यत्रभवतः कर्तुमात्मनिवेदनम् ॥ ४९ ॥
राजा - विज्ञापयाम्यत्रभवतीम् ।
 
गान्धारी - भणाहि जाद ! । [ भण जात ! ]
 
१. कथं विक्लवो ।
 
१५