This page has been fully proofread once and needs a second look.

―i. 44.']

प्रथमोऽङ्कः ।

<page>

<speaker>
धृतराष्ट्रः - </speaker>गच्छ पितुरङ्के विश्रमस्व ।

५०१

<speaker>
दुर्जयः - </speaker>ताद ! अहं गच्छामि । <stage>( उपसृत्य )</stage> ताद ! कहिं सि <chaya>[ तात !

अहं गच्छामि । तात काक्वासि । ]

१२
</chaya>

<speaker>
राजा–</speaker>अयमप्यागतः । भोः ! सर्वावस्थायां हृदयसंनिहितः पुत्र-

स्नेहो मां दहति । कुतः,

<verse lang="sa">
दुःखानामनभिज्ञो यो ममाङ्कशयनोचितः ।

निर्जितं दुर्जयो दृष्ट्वा किन्नु मामभिधास्यति ॥ ४२ ॥

</verse>

<speaker>
दुर्जयः -</speaker> अअं महाराओ भूमीए उवविट्ठो । <chaya>[ अयं महाराजो भूम्या-

पविष्टः । ]

</chaya>

<speaker>
राजा - </speaker>पुत्र

किमर्थमिहागतः ।

<speaker>
दुर्जयः -</speaker> तुवं चिरायसि त्ति । [ त्वं चिरायसीति । ]

<speaker>राजा
- </speaker>अहो अस्यामवस्थायामपि पुत्रस्नेहो हृदयं दहति ।

राजा-

<speaker>
दुर्जयः - </speaker>अहं पि खु दे अङ्के उवविसामि । <stage>( अङ्कमारोहति ) </stage><chaya>[ अह-

मपि खलु ते अङ्के उपविशामि । ]

</chaya>

<speaker>
राजा - </speaker> <stage>(निवार्य ) </stage>दुर्जय ! दुर्जय ! भोः ! कष्टम् ।

<verse lang="sa">
हृदयप्रीतिजननो यो मे नेत्रोत्सवः स्वयम्

सोऽयं कालविपर्यासाञ्चन्द्रो वह्नित्वमागतः ॥ ४३ ॥

</verse>

<speaker>
दुर्जयः - </speaker>अङ्के उववेसं किण्णिमित्तं तुवं वारोस । [ अङ्क उपवेशं

किनिमित्तं त्वं वारयसि । ]

<speaker>
राजा-

</speaker>

<verse lang="sa">
त्यक्त्वा परिचितं पुत्र ! यत्र यत्र त्वयास्यताम् ।

अद्यप्रभृति नास्तीदं पूर्वभुक्तं तवासनम् ॥ ४४ ॥

</verse>

<speaker>
दुर्जयः - </speaker>कहिहु महाराओ गमिस्सिदि । <chaya>[ कुन नु खलु महाराजो

गमिष्यति । ]

१३

</chaya>

</page>