This page has not been fully proofread.

―i. 44.']
 
प्रथमोऽङ्कः ।
 
९ धृतराष्ट्रः गच्छ पितुरङ्के विश्रमस्व ।
 
५०१
 
दुर्जयः - ताद ! अहं गच्छामि । ( उपसृत्य ) ताद ! कहिं सि [ तात !
अहं गच्छामि । तात कासि । ]
 
१२ राजा–अयमप्यागतः । भोः ! सर्वावस्थायां हृदयसंनिहितः पुत्र-
स्नेहो मां दहति । कुतः,
 
दुःखानामनभिज्ञो यो ममाङ्कशयनोचितः ।
 
निर्जितं दुर्जयो दृष्ट्वा किन्नु मामभिधास्यति ॥ ४२ ॥
 
दुर्जयः - अअं महाराओ भूमीए उवविट्ठो । [ अयं महाराजो भूम्या-
पविष्टः । ]
 
३ राजा - पुत्र
 
किमर्थमिहागतः ।
 
दुर्जयः - तुवं चिरायसि त्ति । [ त्वं चिरायसीति । ]
 
- अहो अस्यामवस्थायामपि पुत्रस्नेहो हृदयं दहति ।
 
राजा-
 
६ दुर्जयः - अहं पि खु दे अङ्के उवविसामि । ( अङ्कमारोहति ) [ अह-
मपि खलु ते अङ्के उपविशामि । ]
 
राजा - (निवार्य ) दुर्जय ! दुर्जय ! भोः ! कष्टम् ।
 
हृदयप्रीतिजननो यो मे नेत्रोत्सवः स्वयम्
 
सोऽयं कालविपर्यासाञ्चन्द्रो वह्नित्वमागतः ॥ ४३ ॥
 
दुर्जयः - अङ्के उववेसं किण्णिमित्तं तुवं वारोस । [ अङ्क उपवेशं
किनिमित्तं त्वं वारयसि । ]
 
३ राजा-
 
त्यक्त्वा परिचितं पुत्र ! यत्र यत्र त्वयास्यताम् ।
अद्यप्रभृति नास्तीदं पूर्वभुक्तं तवासनम् ॥ ४४ ॥
 
दुर्जयः - कहिहु महाराओ गमिस्सिदि । [ कुन नु खलु महाराजो
गमिष्यति । ]
 
१३