This page has not been fully proofread.

५००
 
ऊरुभङ्गे
 
[i. 39.-
 
गान्धारी - जाद सुयोधण ! देहि मे पडिवअणं । पुत्तसदविणास-
दुत्थिदं समस्सा सेहि महाराअं । [ जात सुयोधन ! देहि मे प्रति-
३ वचनम् । पुत्रशतविनाशदुःस्थितं समाश्वासय महाराजम् । ]
बलदेवः - अये ! इयमत्रभवती गान्धारी ।
या पुत्रपौत्रवदनेष्वकुतूहलाक्षी
दुर्योधनास्तमितशोकनिपीतधैर्या ।
अस्त्रैरजस्रमधुना पतिधर्मचिह्न -
 
माद्रीकृतं नयनबन्धमिदं दधाति ॥ ४० ॥
 
धृतराष्ट्रः- पुत्र दुर्योधन ! अष्टादशाक्षौहिणीमहाराज ! कासि ।
राजा - अद्यास्मि महाराजः ।
 
३ धृतराष्ट्र : - एहि पुत्रशतज्येष्ठ ! देहि मे प्रतिवचनम् ।
 
राजा - ददामि खलु प्रतिवचनम् । अनेन वृत्तान्तेन त्रीलितोऽस्मि ।
धृतराष्ट्रः - एहि पुत्र ! अभिवादयस्व माम् ।
 
६ राजा - अयमयमागच्छामि । ( उत्थानं रूपयित्वा पतति ) हा धिकू !
अयं मे द्वितीयः प्रहारः । कष्टं भोः !
 
हृतं मे भीमसेनेन गढ़ापातकचग्रहे ।
 
सममूरुद्वयेनाद्य गुरोः पादाभिवन्दनम् ॥ ४१ ॥
 
गान्धारी - एत्थ जादा ! । [ अत्र जाते ! ]
 
देव्यौ - अय्ये ! इमा म्ह । [ आयें ! इमे स्व: । ]
६ गान्धारी - अण्णेसह भत्तारं । [ अन्वेषेथां भर्तारम् । ]
देव्यौ - गच्छाम मन्दभाआ [ गच्छावः मन्दभागे । ]
तराष्ट्रः - क एष भो ! मम वस्त्रान्तमाकर्षन् मार्गमादेशयति ।
:-ताद् ! अहं दुज्जओ । [ तात ! अहं दुर्जय: । ]
 
६ दुर्जय:-
 
धृतराष्ट्रः - पौत्र दुर्जय ! पितरमन्विच्छ ।
 
दुर्जयः - ताद ! परिस्संतो खु अहं । [तात ! परिश्रान्तः खल्वहम् । ]
१२