2026-01-19 21:16:44 by akprasad
This page has been fully proofread once and needs a second look.
प्रथमोऽङ्कः ।
<p lang="sa"><stage>( ततः प्रविशति धृतराष्ट्र गान्धारी देव्यौ दुर्जयश्च । )
<p><speaker>धृतराष्ट्रः - </speaker>पुत्र क्कासि ।
३
<p lang="sa"><speaker>गान्धारी - </speaker>पुत्तअ ! कहिं सि ।<chaya> [ पुत्रक ! क्वासि । ]
<p><speaker>देव्यौ - </speaker>महाराअ ! कहिं सि ।<chaya> [ महाराज ! क्वासि । ]
<p><speaker>धृतराष्ट्रः - </speaker>भोः ! कष्टम् ।
<verse lang="sa">वञ्चनानिहतं श्रुत्वा सुतमद्याहवे मम ।
मुखमन्तर्गतास्राक्षमन्धमन्धतरं कृतम् ॥ ३७ ॥
<p lang="sa">गान्धारि ! किं
४९९
<p lang="sa"><speaker>गान्धारी - </speaker>जीवाविद म्हि मन्दभाआ ।<chaya> [ जीवितास्मि मन्दभागा । ]
३
<p><speaker>देव्यौ - </speaker>महाराअ ! महाराअ ! <chaya>[ महाराज ! महाराज ! । ]
<p><speaker>राजा - </speaker>भोः ! कष्टम् । यन्ममापि स्त्रियो रुदन्ति ।
<verse>पूर्वं न जानामि गदाभिघात-
रुजामिदानीं तु समर्थयामि ।
यन्मे प्रकाशीकृतमूर्धजानि
रणं प्रविष्टान्यवरोधनानि ॥ ३८ ॥
<p lang="sa"><speaker>धृतराष्ट्रः - </speaker>गान्धारि ! किं दृश्यते दुर्योधननामधेयः कुलमानी ।
<p><speaker>गान्धारी - </speaker>महाराअ ! ण दिस्सदि ।<chaya> [ महाराज ! न दृश्यते । ]
३
<p><speaker>धृतराष्ट्रः-</speaker> कथं न दृश्यते । हन्त भो ! अद्यास्म्यहमन्धो योऽहम-
न्वेष्टव्ये काले पुत्रं न पश्यामि । भोः कृतान्तहतक !
<p>रिपुसमरविमर्दं मानवीर्य
सुतशतमतिधीरं वीरमुत्पाद्य मानम्
धरणितलविकीर्णं किं स योग्यो न भोक्तुं
सकृदपि धृतराष्ट्रः पुत्रदत्तं निवापम् ॥ ३९ ॥
<footnote mark="१
११
</page>