2025-12-29 10:01:00 by ambuda-bot
This page has not been fully proofread.
-i. 39.]
प्रथमोऽङ्कः ।
( ततः प्रविशति धृतराष्ट्र गान्धारी देव्यौ दुर्जयश्च । )
धृतराष्ट्रः - पुत्र क्कासि ।
३ गान्धारी - पुत्तअ ! कहिं सि । [ पुत्रक ! क्वासि । ]
देव्यौ - महाराअ ! कहिं सि । [ महाराज ! क्वासि । ]
धृतराष्ट्रः - भोः ! कष्टम् ।
वञ्चनानिहतं श्रुत्वा सुतमद्याहवे मम ।
मुखमन्तर्गतास्राक्षमन्धमन्धतरं कृतम् ॥ ३७ ॥
गान्धारि ! किं घर से ।
४९९
गान्धारी - जीवाविद म्हि मन्दभाआ । [ जीवितास्मि मन्दभागा । ]
३ देव्यौ - महाराअ ! महाराअ ! [ महाराज ! महाराज ! । ]
राजा - भोः ! कष्टम् । यन्ममापि स्त्रियोरुदन्ति ।
पूर्वं न जानामि गदाभिघात-
रुजामिदानीं तु समर्थयामि ।
यन्मे प्रकाशीकृतमूर्धजानि
रणं प्रविष्टान्यवरोधनानि ॥ ३८ ॥
धृतराष्ट्रः - गान्धारि ! किं दृश्यते दुर्योधननामधेयः कुलमानी ।
गान्धारी - महाराअ ! ण दिस्सदि । [ महाराज ! न दृश्यते । ]
३ धृतराष्ट्रः कथं न दृश्यते । हन्त भो ! अद्यास्म्यहमन्धो योऽहम-
न्वेष्टव्ये काले पुत्रं न पश्यामि । भोः कृतान्तहतक !
रिपुसमरविमर्दं मानवीर्य प्रदीप्तं
सुतशतमतिधीरं वीरमुत्पाद्य मानम् ।
धरणितविकीर्णं किं स योग्यो न भोक्तुं
सकृदपि धृतराष्ट्रः पुत्रदत्तं निवापम् ॥ ३९ ॥
१. ' मानी ' इति स्यात् ।
११