This page has not been fully proofread.

४९८
 
उरुभङ्गे
 
दुर्योधनः- हन्त भोः ! दत्तमूल्या इव मे प्राणाः । कुतः
आदीप्रानलदारुणाज्जतुगृहाद्रध्यात्मनिर्वाहिणा
 
युद्धे वैश्रवणालयेऽचलशिलावेगप्रतिस्फालिना ।
भीमेनाद्य हिडिंबराक्षसपतिप्राणप्रतिग्राहिणा
 
[ 1.33.
 
यद्येवं समवैषि मां छलजितं भो राम ! नाहं जितः ॥३४॥
बलदेवः - भीमसेन इदानीं तव युद्धवचनामुत्पाद्य स्थास्यति ।
दुर्योधनः- किं चाहं भीमसेनेन वश्चितः ।
 
३ बलदेवः - अथ केन भवानेवंविधः कृतः ।
 
दुर्योधनः- श्रूयताम्,
 
येनेन्द्रस्य स पारिजातकतरुर्मानेन तुल्यं हृतो
 
दिव्यं वर्षसहस्रमर्णवजले सुप्तश्च यो लीलया ।
तीव्र भीमगदां प्रविश्य सहसा निर्व्याजयुद्धप्रिय-
स्तेनाहं जगतः प्रियेण हरिणा मृत्योः प्रतिग्राहितः ॥ ३५ ॥
( नेपथ्ये )
 
उस्सरह उस्सरह अय्या ! उस्सरह । [ उत्सरतोत्सरतार्याः !
३ उत्सरत । ]
 
बलदेव:-( विलोक्य) अये अयमत्रभवान् धृतराष्ट्रः गान्धारी च
दुर्जयेनादेशित मार्गोऽन्तःपुरानुबन्धः शोकाभिभूतहृदयश्चकितगति-
६ रित एवाभिवर्तते । य एषः,
 
वीर्याकरः सुतशतप्रविभक्तचक्षु-
 
दर्पोद्यतः कनकयूपविलम्बबाहुः ।
सृष्टो धुवं त्रिदिवरक्षणजातशंकै-
 
र्देवैररातितिमिराञ्जलिताडिताक्षः ॥ ३६ ॥
 
१. परित्राण ० ।
 
१०