2026-01-19 21:06:10 by akprasad
This page has been fully proofread once and needs a second look.
प्रथमोऽङ्कः ।
४९७
<verse lang="sa">निर्वृत्तेऽमृतमन्थने क्षितिधरान्मुक्तः सुरैः सामुरै-
राकर्षन्निव भोगमर्णवजले श्रान्तोज्झितो वासुकिः ॥ २९ ॥
<p><stage>( ततः प्रविशति भग्नोरुयुगलो दुर्योधनः । )
<p lang="sa"><speaker>दुर्योधनः- </speaker>एष भोः !
<verse lang="sa">भीमेन भित्वा समयव्यवस्थां गदाभिघातक्षतजर्जरोरुः ।
भूमौ भुजाभ्यां परिकृष्यमाणं स्वं देहमर्धोपरतं वहामि ॥ ३० ॥
<p>प्रसीदतु प्रसीदतु भगवान हलायुधः ।
<verse>त्वत्पादयोर्निपतितं पतितस्य भूमा-
वेतच्छिरः
रः
जीवन्तु ते कुरुकुलस्य निवापमेघा
वैरं च विग्रहकथाश्च वयं च नष्टाः ॥ ३१ ॥
<p lang="sa"><speaker>बलदेवः - </speaker>भोः दुर्योधन ! मुहूर्तं तावदात्मा धार्यताम् ।
<p><speaker>दुर्योधनः- </speaker>किं भवान्करिष्यति ।
३
<p lang="sa"><speaker>बलदेवः - </speaker>भो श्रूयताम्,
<verse lang="sa">आक्षिप्तलाङ्गलमुखोल्लिखितैः शरीरै
निर्दारितांस
दास्यामि संयुगह
स्वर्गानुयात्रपुरुषांस्तव पाण्डुपुत्रान् ॥ ३२ ॥
<p lang="sa"><speaker>दुर्योधनः- </speaker>मा मा भवानेवम् ।
<verse lang="sa">प्रतिज्ञावसिते भीमे गते भ्रातृशते दिवम् ।
मयि चैवं गते राम ! विग्रहः किं करिष्यति ॥ ३३ ॥
<p><speaker>बलदेवः - </speaker>मत्प्रत्यक्षं वञ्चितो भवानित्युत्पन्नो मे रोषः ।
<p><speaker>दुर्योधनः-
३
<p lang="sa"><speaker>बलदेवः - </speaker>कः संशयः ।
</page>