This page has not been fully proofread.

-i. 33.3]
 
प्रथमोऽङ्कः ।
 
४९७
 
निर्वृत्तेऽमृतमन्थने क्षितिधरान्मुक्तः सुरैः सामुरै-
राकर्षन्निव भोगमर्णवजले श्रान्तोज्झितो वासुकिः ॥ २९ ॥
( ततः प्रविशति भनोरुयुगलो दुर्योधनः । )
 
दुर्योधनः- एष भोः !
 
भीमेन भित्वा समयव्यवस्थां गदाभिघातक्षतजर्जरोरुः ।
भूमौ भुजाभ्यां परिकृष्यमाणं स्वं देहमर्धोपरतं वहामि ॥ ३० ॥
प्रसीदतु प्रसीदतु भगवान हलायुधः ।
त्वत्पादयोर्निपतितं पतितस्य भूमा-
 
वेतच्छिरः
 
रः प्रथममद्य विमुच रोषम् ।
 
जीवन्तु ते कुरुकुलस्य निवापमेघा
 
वैरं च विग्रहकथाश्च वयं च नष्टाः ॥ ३१ ॥
 
बलदेवः - भोः दुर्योधन ! मुहूर्तं तावदात्मा धार्यताम् ।
दुर्योधनः- किं भवान्करिष्यति ।
 
३ बलदेवः - भो श्रूयताम्,
 
आक्षिप्तलाङ्गलमुखोल्लिखितैः शरीरै -
निर्दारितांस हृदयान्मुसलप्रहारैः ।
 
दास्यामि संयुगह तान्सरथाश्वनागान्
स्वर्गानुयात्रपुरुषांस्तव पाण्डुपुत्रान् ॥ ३२ ॥
 
दुर्योधनः- मा मा भवानेवम् ।
 
प्रतिज्ञावसिते भीमे गते भ्रातृशते दिवम् ।
 
मयि चैवं गते राम ! विग्रहः किं करिष्यति ॥ ३३ ॥
बलदेवः - मत्प्रत्यक्षं वचितो भवानित्युत्पन्नो मे रोषः ।
दुर्योधनः- वचित इति मां भवान् मन्यते ।
 
३ बलदेवः - कः संशयः ।