2026-01-19 23:31:55 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<verse lang="sa">च<ref>१</ref>लविलुलितमौलिः क्रोधताम्रायताक्षो
भ्रमरमुखविदष्टां किंचिदुत्कृष्य मालाम् ।
असिततनुविलम्बिस्रस्तवस्त्रानुकर्षी
क्षितितलमवतीर्णः पारिवेषीव चन्द्रः ॥ २६ ॥</verse>

<speaker>द्वितीयः - </speaker>तदागम्यतां वयमपि तावन्महाराजस्य प्रत्यनन्तरीभवामः ।

<speaker>उभौ - </speaker>बाढम् । प्रथमः कल्पः ।

<stage>( निष्कान्ताः । )</stage>

<trailer>विष्कम्भकः ।</trailer>

<stage>( ततः प्रविशति बलदेवः । )</stage>

<speaker>बलदेवः - </speaker>भो भोः पार्थिवाः ! न युक्तमिदम् ।

<verse>मम रिपुबलकालं लाङ्गलं लङ्घयित्वा
रणकृतमतिसंधिं मां च नावेक्ष्य दर्पान् ।
रणशिरसि गदां तां तेन दुर्योधनोर्वोः
कुलविनयसमृध्या पातितः पातयित्वा ॥ २७ ॥</verse>

भो दुर्योधन ! मुहूर्तं तावदात्मा धार्यताम् ।

<pverse lang="sa">सौमोच्छिष्टमुखं महासुरपुरप्राकारकूटाङ्कुशं
कालिन्दीजलदेशिकं रिपुबलप्राणोपहारार्चितम् ।
हस्तोत्क्षिप्तहलं करोमि रुधिरस्वेदार्द्रपंकोत्तरं
भीमस्योरसि यादवद्य विपुले केदारमार्गाकुलम् ॥ २८ ॥</pverse>

<stage>( नेपथ्ये )</stage>

प्रसीदतु प्रसीदतु भगवान् हलायुधः ।

<speaker>बलदेवः - </speaker>अये एवंगतोऽप्यनुगच्छति मां तपस्वी दुर्योधनः । य एषः,

<verse lang="sa" merge-next="true">श्रीमान् संयुगचन्दनेन रुधिरेणार्द्रानुलिप्तच्छवि-
र्भूसंसर्पणरेणुपाटलभुजो बालव्रतं ग्राहितः ।</verse>
<footnote mark="१" lang="sa">प्रचलललित॰ ।</footnote>
</page>
<verse lang="sa">च<ref>१</ref>लविलुलितमौलिः क्रोधताम्रायताक्षो
भ्रमरमुखविदष्टां किंचिदुत्कृष्य मालाम् ।
असिततनुविलम्बिस्रस्तवस्त्रानुकर्षी
क्षितितलमवतीर्णः पारिवेषीव चन्द्रः ॥ २६ ॥</verse>

<speaker>द्वितीयः - </speaker>तदागम्यतां वयमपि तावन्महाराजस्य प्रत्यनन्तरीभवामः ।

<speaker>उभौ - </speaker>बाढम् । प्रथमः कल्पः ।

<stage>( निष्कान्ताः । )</stage>

<trailer>विष्कम्भकः ।</trailer>

<stage>( ततः प्रविशति बलदेवः । )</stage>

<speaker>बलदेवः - </speaker>भो भोः पार्थिवाः ! न युक्तमिदम् ।

<verse>मम रिपुबलकालं लाङ्गलं लङ्घयित्वा
रणकृतमतिसंधिं मां च नावेक्ष्य दर्पान् ।
रणशिरसि गदां तां तेन दुर्योधनोर्वोः
कुलविनयसमृध्या पातितः पातयित्वा ॥ २७ ॥</verse>

भो दुर्योधन ! मुहूर्तं तावदात्मा धार्यताम् ।

कालिन्दीजलदेशिकं रिपुबलप्राणोपहारार्चितम् ।
हस्तोत्क्षिप्तहलं करोमि रुधिरस्वेदार्द्रपंकोत्तरं
भीमस्योरसि यादवद्य विपुले केदारमार्गाकुलम् ॥ २८ ॥</