2025-12-29 10:01:00 by ambuda-bot
This page has not been fully proofread.
४९६
ऊरुभङ्गे
चेलविलुलितमौलिः क्रोधताम्रायताक्षो
भ्रमरमुखविदष्टां किंचिदुत्कृष्य मालाम् ।
असिततनुविलम्बि स्रस्तवस्त्रा नुकर्षी
क्षितितलमवतीर्णः पारिवेषीव चन्द्रः ॥ २६ ॥
[i. 26.--
द्वितीयः - तदागम्यतां वयमपि तावन्महाराजस्य प्रत्यनन्तरीभवामः ।
उभौ - बाढम् । प्रथमः कल्पः ।
( निष्कान्ताः । )
विष्कम्भकः ।
( ततः प्रविशति बलदेवः । )
६ बलदेवः - भो भोः पार्थिवाः ! न युक्तमिदम् ।
मम रिपुबलकालं लाङ्गलं लङ्कयित्वा
रणकृतमतिसंधिं मां च नावेक्ष्य दर्पान् ।
रणशिरसि गढ़ां तां तेन दुर्योधनोर्वोः
कुलविनयसमृध्या पातितः पातयित्वा ॥ २७ ॥
भो दुर्योधन ! मुहूर्तं तावदात्मा धार्यताम् ।
सौमोच्छिष्मुखं महासुरपुरप्राकारकूटाङ्कुशं
कालिन्दीजलदेशिकं रिपुबलप्राणोपहारार्चितम् ।
हस्तोत्क्षिप्तहलं करोमि रुधिरस्वेदाकोत्तरं
भीमन्योरसि यावद्य विपुले केदारमार्गाकुलम् ॥ २८ ॥
( नेपथ्ये )
प्रसीदतु प्रसीदतु भगवान् हलायुधः ।
३ बलदेवः - अये एवंगतोऽप्यनुगच्छति मां तपस्वी दुर्योधनः । य एषः,
श्रीमान् संयुगचन्दनेन रुधिरेणार्द्रानुलिप्तच्छवि-
भूसंसर्पणरेणुपाटलभुजो बालव्रतं ग्राहितः ।
१. प्रचलललित • ।
८