This page has not been fully proofread.

-i. 25.2]
 
प्रथमोऽङ्कः ।
 
वाक्यं वदत्युपसन्न तु भीम ! दीनं
 
वीरो निहन्ति समरेषु भयं त्यजेति ॥ २२ ॥
 
४९५
 
द्वितीयः - एप इदानीमपहास्यमानं भीमसेनं दृष्ट्रा स्वमूरुमभिहत्य
कामपि संज्ञां प्रयच्छति जनार्दनः ।
 
३ तृतीयः
 
:- एष संज्ञया समाश्वासितो मारुतिः,
 
संहृत्य भ्रुकुटीललाटविवरे स्वेदं करेणाक्षिपन्
 
बाहुभ्यां परिगृह्य भीमवदनश्चित्राङ्गदां स्वां गदाम् ।
पुत्रं दीनमुदीक्ष्य सर्वगतिना लब्ध्वेव दत्तं बलं
गर्जन सिंहवृषेक्षणः क्षितितलाद्भूयः समुत्तिष्ठति ॥२३॥
 
प्रथमः- हन्त पुनः प्रवृत्तं गदायुद्धम् । अनेन हि,
भूमौ पाणितले निघृष्य तरसा बाहू प्रमृज्याधिकं
सन्दष्टष्ठपुटेन विक्रमबलात् क्रोधाधिकं गर्जता ।
त्यक्त्वा धर्मघृणां विहाय समयं कृष्णस्य संज्ञासमं
गान्धारीतनयस्य पाण्डुतनयेनोर्वोर्विमुक्ता गढ़ा ॥ २४ ॥
 
सर्वे- हा धिक् पतितो महाराजः ।
 
तृतीयः - एष रुधिरपतनद्योतिताङ्गं निपतन्तं कुरुराजं दृष्ट्रा खमुत्पतितो
 
३ भगवान् द्वैपायनः । य एषः,
 
मालासंवृत लोचनेन हलिना नेत्रोपरोधः कृतः
 
क्रोधनिमीलितं हलधरं दुर्योधनापेक्षया ।
 
संभ्रान्तैः करपञ्जरान्तरगतो द्वैपायनज्ञापितो
 
भीमः कृष्णभुजावलंबितगतिर्निर्वाते पाण्डवैः ॥ २५ ॥
प्रथमः-अये अयमप्यमर्षोन्मीलितरभसलोचनो भीमसेनापक्रमण-
मुद्वीक्षमाणः इत एवाभिवर्तते भगवान् हलायुधः । य एषः,
 
१. हेला० ।