This page has not been fully proofread.

४९४
 
ऊरुभङ्गे
 
भीमो भाति गदाभिघातरुधिरक्लिन्नावगाढव्रणः
 
[i. 18.-
 
शैलो मेरुरिवैप धातुसलिलासारोपदिग्धोपलः ॥ १८ ॥
 
द्वितीयः - भीमां गदां क्षिपति गर्जति वल्गमानः
 
शीघ्रं भुजं हरति तस्य कृतं भिनत्ति ।
चारों गतिं प्रचरति प्रहरत्यभीक्ष्णं
 
शिक्षान्वितो नरपतिर्बलवांस्तु भीमः ॥ १९ ॥
 
तृतीय:- एप वृकोदरः,
 
शिरसि गुरुनिखातस्रस्तरार्द्रगात्रो
धरणिधरनिकाशः संयुगेष्वप्रमेयः ।
प्रविशति गिरिराजो मेदिनीं वज्रदग्धः
 
शिथिल विसृतधातुर्हेमकूटो यथाद्रिः ॥ २० ॥
 
प्रथमः- एष गाढप्रहारशिथिलीकृताङ्गं निपतन्तं भीमसेनं दृष्ट्वा,
एकाग्रांगुलिधारितोन्नतमुखो व्यासः स्थितो विस्मितः
 
३ द्वितीय:-
 
दैन्यं याति युधिष्ठिरोऽत्र विदुरो बाष्पाकुलाक्षः स्थितः ।
 
तृतीय:-
 
सर्वे-
 
स्पृष्टं गाण्डिवमर्जुनेन गगनं कृष्णः समुद्वीक्षते
 
शिष्यप्रीततया हलं भ्रमयते रामो रणप्रेक्षकः ॥ २१ ॥
 
प्रथमः- एष महाराजः,
 
वीर्यालय विविधरत्नविचित्रमौलि -
युक्तोऽभिमानविनय द्युति साहसैश्च ।
 
१. संशिक्षितो । २. प्रीतितया ।