2026-01-01 22:09:01 by akprasad
This page has been fully proofread once and needs a second look.
<page>

<speaker>सर्वे - </speaker>अये शब्दः ।

<verse lang="sa">किं मेघा निनदन्ति वज्रपतनैश्चूर्णीकृताः पर्वता
निर्घातैस्तुमुलस्वनप्रतिभयैः किं दार्यते वा मही ।
किं मुञ्चत्यनिलावधूतचपलक्षुब्धोर्मिमालाकुलं
शब्दं मन्दरकन्दरोदरदरीः संहत्य वा सागरः ॥ १५ ॥</verse>

भवतु, पश्यामस्तावत् । <stage>( सर्वे परिक्रामन्ति । )</stage>

<speaker>प्रथमः- </speaker>अये एतत्खलु द्रौपदीकेशधर्षणावमर्षितस्य पाण्डवमध्यमस्य
भीमसेनस्य भ्रातृशतवधक्रुद्धस्य महाराजदुर्योधनस्य च द्वैपायन-
हलायुधकृष्णविदुरप्रमुखानां कुरुयदुकुलदैवतानां प्रत्यक्षं प्रवृत्तं
गदायुद्धम् ।

<speaker>द्वितीय:-</speaker>

<verse lang="sa">भीमस्योरसि चारुकांचनारीलापीने प्रतिस्फालिते
भिन्ने वासवहस्तिहस्तकठिने दुर्योधनांसस्थले ।
अन्योन्यस्य भुजद्वयान्तरतटेष्वासज्यमानायुधे
यस्मिंश्चण्डगदाभिघातजनितः शब्दः समुत्तिष्ठति ॥ १६ ॥</verse>

<speaker>तृतीय: - </speaker>एष महाराजः,

शी<ref>१</ref>र्षोत्कंपनवल्गमानमकुटः क्रोधा<ref>२</ref>ग्निकाक्षाननः
स्थानाक्रामणवामनीकृततनुः प्रत्यग्रहस्तोच्छ्रयः ।
यस्यैषा रिपुशोणितार्द्रकलिला भात्यग्रहस्ते गदा
कैलासस्य गिरेरिवाग्ररचिता सोल्का महेन्द्राशनिः ॥ १७ ॥

<speaker>प्रथम : - </speaker>एष संप्रहाररुधिरसिक्ताङ्गस्तावद्दश्यतां पाण्डवः ।

<verse merge-next="true">निर्भिन्नाप्ग्रललाटवान्तरुधिरो भग्नांसकूटद्वयः
सान्द्रैर्निर्गलितप्रहाररुधिरैराद्रीकृतोरःस्थलः ।</verse>
<footnote mark="१">शिष्टो० ।</footnote>
<footnote mark="२">क्रोधाधि० ।</footnote>
</page>