This page has not been fully proofread.

<page>

<speaker>सर्वे
-i. 18. ]

सर्वे -
</speaker>अये शब्दः ।

प्रथमोऽङ्कः ।

<verse lang="sa">
किं मेघा निनदन्ति वज्रपतनैश्चूर्णीकृताः पर्वता

निर्घातैस्तुमुलस्वनप्रतिभयैः किं दार्यते वा मही ।

किं मुञ्चत्यनिलावधूतचपलक्षुब्धोर्मिमालाकुलं

४९३

शब्दं मन्दरकन्दरोदरदरीः संहत्य वा सागरः ॥ १५ ॥
</verse>

भवतु, पश्यामस्तावत् । <stage>( सर्वे परिक्रामन्ति । )

</stage>

<speaker>
प्रथमः- </speaker>अये एतत्खलु द्रौपदीकेश धर्षणावमर्षितस्य पाण्डवमध्यमस्य

भीमसेनस्य भ्रातृशतवधक्रुद्धस्य महाराजदुर्योधनस्य च द्वैपायन-

हलायुध कृष्णविदुरप्रमुखानां कुरुयदुकुलदैवतानां प्रत्यक्षं प्रवृत्तं

गदायुद्धम् ।

<speaker>
द्वितीय:-

</speaker>

<verse lang="sa">
भीमस्योरसि चारुकांचनारीलापीने प्रतिस्फालिते

भिन्ने वासवहस्तिहस्तकठिने दुर्योधनांसस्थले ।

अन्योन्यस्य भुजद्वयान्तर तटेष्वासज्यमानायुधे

यस्मिंश्चण्डगदाभिघातजनितः शब्दः समुत्तिष्ठति ॥ १६ ॥

</verse>

<speaker>
तृतीय: - </speaker>एष महाराजः,

शी<ref>१</ref>र्षोत्कंपनवल्गमानमकुटः क्रोधा<ref>२</ref>ग्निकाक्षाननः

स्थानाक्रामणवामनीकृततनुः प्रत्यग्रहस्तोच्छ्रयः ।

यस्यैषा रिपुशोणितार्द्रकलिला भात्यग्रहस्ते गढ़ा

दा
कैलासस्य गिरेरिवाप्ग्ररचिता सोल्का महेन्द्राशनिः ॥ १७ ॥

<speaker>
प्रथम : - </speaker>एष संप्रहाररुधिरसिक्ताङ्गस्तावद्दश्यतां पाण्डवः ।

<verse merge-next="true">
निर्भिन्नाप्ग्रललाटवान्तरुधिरो भग्नांसकूटद्वयः

सान्द्रैर्निर्गलितप्रहाररुधिरैराद्रीकृतोरःस्थलः ।

</verse>
<footnote mark="
. ">शिष्टो० । </footnote>
<footnote mark="
. ">क्रोधाधि० ।

</footnote>
</page>