This page has not been fully proofread.

-i. 18. ]
 
सर्वे - अये शब्दः ।
 
प्रथमोऽङ्कः ।
 
किं मेघा निनदन्ति वज्रपतनैश्चूर्णीकृताः पर्वता
निर्घातैस्तुमुलस्वनप्रतिभयैः किं दार्यते वा मही ।
किं मुञ्चत्यनिलावधूतचपलक्षुब्धोर्मिमालाकुलं
 
४९३
 
शब्दं मन्दरकन्दरोदरदरीः संहत्य वा सागरः ॥ १५ ॥
भवतु, पश्यामस्तावत् । ( सर्वे परिक्रामन्ति । )
 
प्रथमः- अये एतत्खलु द्रौपदीकेश धर्षणावमर्षितस्य पाण्डवमध्यमस्य
३ भीमसेनस्य भ्रातृशतवधक्रुद्धस्य महाराजदुर्योधनस्य च द्वैपायन-
हलायुध कृष्णविदुरप्रमुखानां कुरुयदुकुलदैवतानां प्रत्यक्षं प्रवृत्तं
गदायुद्धम् ।
 
६ द्वितीय:-
 
भीमस्योरसि चारुकांचनारीलापीने प्रतिस्फालिते
भिन्ने वासवहस्तिहस्तकठिने दुर्योधनांसस्थले ।
अन्योन्यस्य भुजद्वयान्तर तटेष्वासज्यमानायुधे
यस्मिंश्चण्डगदाभिघातजनितः शब्दः समुत्तिष्ठति ॥ १६ ॥
 
तृतीय: - एष महाराजः,
 
शीर्षोत्कंपनवल्गमानमकुटः क्रोधाग्निकाक्षाननः
 
स्थानाक्रामणवामनीकृततनुः प्रत्यग्रहस्तोच्छ्रयः ।
यस्यैषा रिपुशोणितार्द्रकलिला भात्यग्रहस्ते गढ़ा
 
कैलासस्य गिरेरिवाप्ररचिता सोल्का महेन्द्राशनिः ॥ १७ ॥
प्रथम : - एष संप्रहाररुधिरसिक्ताङ्गस्तावद्दश्यतां पाण्डवः ।
निर्भिन्नाप्रललाटवान्तरुधिरो भग्नांसकूटद्वयः
 
सान्द्रैर्निर्गलितप्रहाररुधिरैराद्रकृतोरःस्थलः ।
 
१. शिष्टो० । २. क्रोधाधि० ।