This page has been fully proofread once and needs a second look.

<page>

<speaker>द्वितीयः- </speaker>इदमपरं पश्येतां भवन्तौ । एते,

<verse>गृध्रा मधूकमुकुलोन्नतपिङ्गलाक्षा
दैत्येन्द्रकुञ्जरनताङ्कुशतीक्ष्णतुण्डाः ।
भान्त्यम्बरे विततलम्बविकीर्णपक्षा
मांसैः प्रवालरचिता इव तालवृन्ताः ॥ ११ ॥</verse>
<verse><speaker>तृतीयः - </speaker>एषा निरस्तहयनागनरेद्रयोधाः
व्यक्तीकृता दिनकरोग्रकरैः समन्तात् ।
नाराचकुन्तशरतोमरखड्गकीर्णा
तारागणं पतितमुद्वहतीव भूमिः ॥ १२ ॥</verse>

<speaker>प्रथमः- </speaker>अहो ईदृश्यामप्यवस्थायामविमुक्तशोभा विराजन्ते क्षत्रियाः ।
इह हि,

<verse lang="sa">स्रस्तोद्वर्तितनेत्रषट्पदगणा ताम्रोष्ठपत्रोत्करा
भ्रूभेदाञ्चितकेसरा स्वमुकुटव्याविद्धसंवर्तिका ।
वीर्यादित्यविबोधिता रणमुखे नाराचनालोन्नता
विष्कम्पा स्थलपद्मिनीव रचिता राज्ञामभीतैर्मुखैः ॥ १३ ॥</verse>

<speaker>द्वितीय: - </speaker>ईदृशानामपि क्षत्रियाणां मृत्युः प्रभवतीति न शक्यं खलु
विषमस्थैः पुरुषैरात्मबलाधानं कर्तुम् ।

<speaker>तृतीयः - </speaker>मृत्युरेव प्रभवति क्षत्रियाणामिति ।

<speaker>प्रथमः-</speaker>कः संशयः ।

<speaker>द्वितीय:- </speaker>मा मा भवानेवम् ।

<verse lang="sa">स्पृष्ट्वा खाण्डवधूमरञ्जितगुणं संशप्तकोत्सादनं
स्वर्गानन्दहरं निवातकवचप्राणोपहारं धनुः ।
पार्थेनास्त्रबलान्महेश्वररणक्षेपावशिष्टैः शरै-
र्दर्पोत्सिक्तवशा नृपा रणमुखे मृत्योः प्रतिग्राहिताः ॥ १४ ॥</verse>
</page>