This page has not been fully proofread.

४९२

ऊरुभङ्गे

<page>

<speaker>
द्वितीयः- </speaker>इदमपरं पश्येतां भवन्तौ । एते,

<verse>
गृधाध्रा मधूकमुकुलोन्नतपिङ्गलाक्षा

दैत्येन्द्रकुञ्जरनताङ्कुशतीक्ष्णतुण्डाः ।

भान्त्यम्बरे विततलम्बविकीर्ण पक्षा

मांसैः प्रवालरचिता इव तालवृन्ताः ॥ ११ ॥

</verse>
<verse><speaker>
तृतीयः - </speaker>एषा निरस्तहयनागनरेद्रयोधाः

व्यक्तीकृता दिनकरोग्रकरैः समन्तात् ।

नाराचकुन्तशरतोमरखड्गकीर्णा

तारागणं पतितमुद्वहतीव भूमिः ॥ १२ ॥

[i. 10.-

</verse>

<speaker>
प्रथमः- </speaker>अहो ईदृश्यामप्यवस्थायामविमुक्तशोभा विराजन्ते क्षत्रियाः ।

इह हि,

<verse lang="sa">
स्रस्तोद्वर्तितनेत्र षट्पद्गणा ताम्रोष्ठपत्रोत्करा

भ्रूभेदाञ्चित केसरा स्वमुकुटव्याविद्धसंवर्तिका ।

वीर्यादित्यविबोधिता रणमुखे नाराचनालोन्नता

विष्कम्पा स्थलपद्मिनीव रचिता राज्ञामभीतैर्मुखैः ॥ १३ ॥
</verse>

<speaker>
द्वितीय: - </speaker>ईदृशानामपि क्षत्रियाणां मृत्युः प्रभवतीति न शक्यं खलु

विषमस्थैः पुरुषैरात्मबलाधानं कर्तुम् ।

<speaker>
तृतीयः - </speaker>मृत्युरेव प्रभवति क्षत्रियाणामिति ।

<speaker>
प्रथमः-</speaker>कः संशयः ।

<speaker>
द्वितीय:- </speaker>मा मा भवानेवम् ।

<verse lang="sa">
स्पृष्टाट्वा खाण्डवधूमरञ्जितगुणं संशप्तकोत्सादनं

स्वर्गानन्दहरं निवातकवचप्राणोपहारं धनुः ।

पार्थेनास्त्रबलान्महेश्वररणक्षेपावशिष्टैः शरै-

र्
दर्पोत्सिक्तवशा नृपा रणमुखे मृत्योः प्रतिग्राहिताः ॥ १४ ॥

</verse>
</page>