This page has not been fully proofread.

४९२
 
ऊरुभङ्गे
 
द्वितीयः- इदमपरं पश्येतां भवन्तौ । एते,
गृधा मधूकमुकुलोन्नतपिङ्गलाक्षा
दैत्येन्द्रकुञ्जरनताङ्कुशतीक्ष्णतुण्डाः ।
भान्त्यम्बरे विततलम्बविकीर्ण पक्षा
 
मांसैः प्रवालरचिता इव तालवृन्ताः ॥ ११ ॥
 
तृतीयः - एषा निरस्तहयनागनरेद्रयोधाः
 
व्यक्तीकृता दिनकरोग्रकरैः समन्तात् ।
नाराचकुन्तशरतोमरखड्गकीर्णा
 
तारागणं पतितमुद्वहतीव भूमिः ॥ १२ ॥
 
[i. 10.-
 
प्रथमः- अहो ईदृश्यामप्यवस्थायामविमुक्तशोभा विराजन्ते क्षत्रियाः ।
 
इह हि,
 
स्रस्तोद्वर्तितनेत्र षट्पद्गणा ताम्रोष्ठपत्रोत्करा
 
भ्रूभेदाचित केसरा स्वमुकुटव्याविद्धसंवर्तिका ।
 
वीर्यादित्यविबोधिता रणमुखे नाराचनालोन्नता
 
विष्कम्पा स्थलपद्मिनीव रचिता राज्ञामभीतैर्मुखैः ॥ १३ ॥
द्वितीय: - ईदृशानामपि क्षत्रियाणां मृत्युः प्रभवतीति न शक्यं खलु
विषमस्थैः पुरुषैरात्मबलाधानं कर्तुम् ।
 
३ तृतीयः - मृत्युरेव प्रभवति क्षत्रियाणामिति ।
 
प्रथमः-कः संशयः ।
 
द्वितीय:- मा मा भवानेवम् ।
 
स्पृष्टा खाण्डवधूमरञ्जितगुणं संशप्तकोत्सादनं
स्वर्गानन्दहरं निवातकवचप्राणोपहारं धनुः ।
पार्थेनाबलान्महेश्वररणक्षेपावशिष्टैः शरै-
 
दर्पोत्सिक्तवशा नृपा रणमुखे मृत्योः प्रतिग्राहिताः ॥ १४ ॥