This page has been fully proofread once and needs a second look.

―i. 10.]

प्रथमोऽङ्कः ।

<page>

<speaker>
प्रथमः- </speaker>इदमपरं पश्येतां भवन्तौ ।

<verse lang="sa">
एते परस्परशरैर्हृतजीवितानां

देहै रणाजिरमहीं समुपाश्रितानाम् ।

कुर्वन्ति चात्र पिशितार्द्रमुखा विहङ्गा

द्वितीय:-

राज्ञां शरीर शिथिलानि विभूषणानि ॥ ७ ॥

४९१

</verse>

<speaker>द्वितीय:-</speaker>

<verse lang="sa">
प्रसक्तनाराच निपातपातितः समग्रयुद्धोद्यतकल्पितो गजः ।

विशीर्णवर्मा सशरः सकार्मुको नृपायुधागारमिवावसीदति ॥८॥
</verse>

<speaker>
तृतीयः - </speaker>इदमपरं पश्येतां भवन्तौ ।

<verse lang="sa">
माल्यैर्ध्वजाग्रपतितैः कृतमुण्डमालं

लग्नैकसायकवरं रथिनं विपन्नम् ।

जामातरं प्रवहणादिव बन्धुनार्यो

हृष्टाः शिवा रथमुखादवतारयन्ति ॥ ९ ॥
</verse>

<speaker>
सर्वे - </speaker>अहोतुखलु निहतपतितगजतुरगनर रुधिरकलिलभूमिप्रदेशस्य

विक्षिप्तवर्मचर्मातपत्रचामर तोमरशरकुन्तकवचकबन्धादिपर्याकुलस्य

शक्तिप्रासपरशु<ref>१</ref>भिण्डिपालशूलमुसलमुद्गरवराहकर्णकणयकर्पणशङ्कु-

त्रासिगदादिभिरायुधैरवकीर्णस्य समन्तपञ्चकस्य प्रतिभयता ।

<speaker>
प्रथमः- </speaker>इह हि,

<verse lang="sa">
रुधिरसरितो निस्तीर्यन्ते हतद्विपसंक्रमा

नृपतिरहितैः स्रस्तैः सूतैर्वहन्ति रथान् हयाः ।

पतितशिरसः पूर्वाभ्यासाद् द्रवन्ति कबन्धकाः

पुरुषरहिता मत्ता नागा भ्रमन्ति यतस्ततः ॥ १० ॥

</verse>
<footnote mark="
. " lang="sa">हाटक० ।

</footnote>
</page>