This page has not been fully proofread.

―i. 10.]
 
प्रथमोऽङ्कः ।
 
प्रथमः- इदमपरं पश्येतां भवन्तौ ।
 
एते परस्परशरैर्हृतजीवितानां
 
देह रणाजिरमहीं समुपाश्रितानाम् ।
कुर्वन्ति चात्र पिशितार्द्रमुखा विहङ्गा
 
द्वितीय:-
 
राज्ञां शरीर शिथिलानि विभूषणानि ॥ ७ ॥
 
४९१
 
प्रसक्तनाराच निपातपातितः समग्रयुद्धोद्यतकल्पितो गजः ।
विशीर्णवर्मा सशरः सकार्मुको नृपायुधागारमिवावसीदति ॥८॥
तृतीयः - इदमपरं पश्येतां भवन्तौ ।
 
माल्यैर्ध्वजाग्रपतितैः कृतमुण्डमालं
लग्नैकसायकवरं रथिनं विपन्नम् ।
जामातरं प्रवहणादिव बन्धुनार्यो
 
हृष्टाः शिवा रथमुखादवतारयन्ति ॥ ९ ॥
सर्वे - अहोतुखलु निहतपतितगजतुरगनर रुधिरकलिलभूमिप्रदेशस्य
विक्षिप्तवर्मचर्मातपत्रचामर तोमरशरकुन्तकवचकबन्धादिपर्याकुलस्य
 
३ शक्तिप्रासपरशुभिण्डिपालशूलमुसलमुद्गरवराहकर्णकणयकर्पणशङ्कु-
त्रासिगदादिभिरायुधैरवकीर्णस्य समन्तपञ्चकस्य प्रतिभयता ।
प्रथमः- इह हि,
 
रुधिरसरितो निस्तीर्यन्ते हतद्विपसंक्रमा
नृपतिरहितैः स्रस्तैः सूतैर्वहन्ति रथान् हयाः ।
पतितशिरसः पूर्वाभ्यासाद् द्रवन्ति कबन्धकाः
पुरुषरहिता मत्ता नागा भ्रमन्ति यतस्ततः ॥ १० ॥
 
१. हाटक० ।