This page has been fully proofread once and needs a second look.

<page>
<ignore lang="sa">४९०</ignore>
<ignore lang="sa">३</ignore>
<ignore lang="sa">ऊरुभङ्गे</ignore>
<verse n="3" lang="sa">एत<ref>१</ref>द्रणं हतगजाश्वनरेन्द्रयोधं
संकीर्णलेख्यमिव चित्रपटं प्रविद्धम् ।
युद्धे वृकोदरसुयोधनयोः प्रवृत्ते
यौधा नरेन्द्रनिधनैकगृहं प्रविष्टाः ॥ ३ ॥</verse>

<stage>( निष्क्रान्ती )</stage>

<trailer lang="sa">स्थापना</trailer>

<stage>( ततः प्रविशति भटास्त्रयः । )</stage>

<speaker>सर्वे - </speaker>एते स्मो भोः ! एते स्मः ।

<verse n="4" lang="sa"><speaker>प्रथमः -</speaker> वैरस्यायतनं बलस्य निकषं मानप्रतिष्ठागृहं
युद्धेष्वप्सरसां स्वयंवरसभां शौर्यप्रतिष्ठां नृणाम् ।
राज्ञां पश्चिमकालवीरशयनं प्राणाग्निहोमक्रतुं
संप्राप्ता रणसंज्ञमाश्रमपदं राज्ञां नभःसंक्रमम् ॥ ४ ॥</verse>

<speaker>द्वितीयः - </speaker>सम्यग्भवानाह ।

<verse lang="sa">उपलवि<error>प</error><fix>ष</fix>मा नागेन्द्राणां शरीरधराधरा
दिशि दिशि कृता गृध्रावासा हतातिरथा रथाः ।
अवनिपतयः स्वर्गं प्राप्ताः क्रियामरणे रणे
प्रतिमुखमिमे तत्तत्कृत्वा चिरं निहताहताः ॥ ५ ॥</verse>

<speaker>तृतीयः - </speaker>एवमेतन् ।

करिवरकरयूपो बाणविन्यस्तदर्भो
हतगजचयनोच्चो वैरवह्निप्रदीप्तः ।
ध्वजविततवि<ref>२</ref>तानः सिंहनादोच्चमन्त्रः
पतितपशुमनुष्यः संस्थितो युद्धयज्ञः ॥ ६ ॥

<footnote mark="१" lang="sa">एतद्रणाहतगजा० ।</footnote>
<footnote mark="२">विमानः ।</footnote>
</page>