2026-01-01 09:05:33 by akprasad
This page has not been fully proofread.
<page>
<ignore lang="sa">४९०
</ignore>
<ignore lang="sa">३
</ignore>
<ignore lang="sa">ऊरुभङ्गे
</ignore>
<verse n="3" lang="sa">एतंत<ref>१</ref>द्रणं हतगजाश्वनरेन्द्रयोधं
संकीर्णलेख्यमिव चित्रपटं प्रविद्धम् ।
युद्धे वृकोदरसुयोधनयोः प्रवृत्ते
यौधा नरेन्द्र निधनैकगृहं प्रविष्टाः ॥ ३ ॥
</verse>

<stage>( निष्क्रान्ती )
</stage>

<trailer lang="sa">स्थापना
</trailer>

<stage>( ततः प्रविशति भटास्त्रयः । )
</stage>

<speaker>सर्वे - </speaker>एते स्ममो भोः ! एते स्मः ।

<verse n="4" lang="sa"><speaker>प्रथमः
: -</speaker> वैरस्यायतनं बलस्य निकषं मानप्रतिष्ठागृहं
युद्धेष्वप्सरसां स्वयंवरसभां शौर्यप्रतिष्ठां नृणाम् ।
राज्ञां पश्चिमकालवीरशयनं प्राणाग्निहोमक्रतुं
[i.3.—
संप्राप्ता रणसंज्ञमाश्रमपदं राज्ञां नभःसंक्रमम् ॥ ४ ॥
</verse>

<speaker>द्वितीयः - </speaker>सम्यग्भवानाह ।

<verse lang="sa">उपलवि<error>प</error><fix>ष</fix>मा नागेन्द्राणां शरीरधराधरा
दिशि दिशि कृतांता गृध्रावासा हतातिरथा रथाः ।
अवनिपतयः स्वर्गं प्राप्ताः क्रियामरणे रणे
प्रतिमुखमिमे तत्तत्कृत्वा चिरं निहताहताः ॥ ५ ॥
</verse>

<speaker>तृतीयः - </speaker>एवमेतन् ।

करिवरकरयूपो बाणविन्यस्तदर्भों
भो
हतगजचयनोच्चो वैरवह्निप्रदीप्तः ।
ध्वजविततवि<ref>२</ref>तानः सिंहनादोच्च मन्त्रः
पतितपशु मनुष्यः संस्थितो युद्धयज्ञः ॥ ६ ॥

<footnote mark="१. " lang="sa">एतद्रणाहतगजा० । </footnote>
<footnote mark="२. ">विमानः ।
</footnote>
</page>
<ignore lang="sa">४९०
<ignore lang="sa">३
<ignore lang="sa">ऊरुभङ्गे
<verse n="3" lang="sa">ए
संकीर्णलेख्यमिव चित्रपटं प्रविद्धम् ।
युद्धे वृकोदरसुयोधनयोः प्रवृत्ते
यौधा नरेन्द्र

<stage>( निष्क्रान्ती )
<trailer lang="sa">स्थापना

<stage>( ततः प्रविशति भटास्त्रयः । )

<speaker>सर्वे - </speaker>एते स्
<verse n="4" lang="sa"><speaker>प्रथमः

युद्धेष्वप्सरसां स्वयंवरसभां शौर्यप्रतिष्ठां नृणाम् ।
राज्ञां पश्चिमकालवीरशयनं प्राणाग्निहोमक्रतुं
[i.3.—
संप्राप्ता रणसंज्ञमाश्रमपदं राज्ञां नभःसंक्रमम् ॥ ४ ॥

<speaker>द्वितीयः - </speaker>सम्यग्भवानाह ।
<verse lang="sa">उपलवि<error>प</error><fix>ष</fix>मा नागेन्द्राणां शरीरधराधरा
दिशि दिशि कृ
अवनिपतयः स्वर्गं प्राप्ताः क्रियामरणे रणे
प्रतिमुखमिमे तत्तत्कृत्वा चिरं निहताहताः ॥ ५ ॥

<speaker>तृतीयः - </speaker>एवमेतन् ।

करिवरकरयूपो बाणविन्यस्तदर्
हतगजचयनोच्चो वैरवह्निप्रदीप्तः ।
ध्वजविततवि<ref>२</ref>तानः सिंहनादोच्च
पतितपशु
<footnote mark="१
<footnote mark="२
</page>