2025-12-29 10:00:58 by ambuda-bot
This page has not been fully proofread.
४९०
३
ऊरुभङ्गे
एतंद्रणं हतगजाश्वनरेन्द्रयोधं
संकीर्णलेख्यमिव चित्रपटं प्रविद्धम् ।
युद्धे वृकोदरसुयोधनयोः प्रवृत्ते
यौधा नरेन्द्र निधनैकगृहं प्रविष्टाः ॥ ३ ॥
( निष्क्रान्ती )
स्थापना
( ततः प्रविशति भटास्त्रयः । )
सर्वे - एते स्म भोः ! एते स्मः ।
प्रथमः
: - वैरस्यायतनं बलस्य निकषं मानप्रतिष्ठागृहं
युद्धेष्वप्सरसां स्वयंवरसभां शौर्यप्रतिष्ठां नृणाम् ।
राज्ञां पश्चिमकालवीरशयनं प्राणाग्निहोमक्रतुं
[i.3.—
संप्राप्ता रणसंज्ञमाश्रमपदं राज्ञां नभःसंक्रमम् ॥ ४ ॥
द्वितीयः - सम्यग्भवानाह ।
उपलविपमा नागेन्द्राणां शरीरधराधरा
दिशि दिशि कृतां गृध्रावासा हतातिरथा रथाः ।
अवनिपतयः स्वर्गं प्राप्ताः क्रियामरणे रणे
प्रतिमुखमि तत्तत्कृत्वा चिरं निहताहताः ॥ ५॥
तृतीयः - एवमेतन् ।
करिवरकरयूपो बाणविन्यस्तदर्भों
हतगजचयनोच्चो वैरवह्निप्रदीप्तः ।
ध्वजविततवितानः सिंहनादोच्च मन्त्रः
पतितपशु मनुष्यः संस्थितो युद्धयज्ञः ॥ ६ ॥
१. एतद्रणाहतगजा० । २. विमानः ।