2025-12-29 11:01:49 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<pignore lang="sa">६
<pignore>
<ignore lang="sa">सूत्रधारः-
<pignore>
<subtitle lang="sa">॥f:श्रीः ॥
<psubtitle>
<subtitle lang="sa">भासनाटकचक्रे
<psubtitle>
(नान्द्यन्ते ततः प्रविशति सूत्रधारः । )
<verse n="1" lang="sa">भीष्मद्रोणतटां जयद्रथजलां गान्धारराजहृदां
कर्णद्रौणिकृपोर्मिनक्रमकरां दुर्योधनस्रोतसं ।
तीर्णः शत्रुनदीं शरा<ref>१</ref>सिसिकतां येन प्लवेनार्जुनः
शत्रूणां तरणेषु वः स भगवानस्तु वः केशवः ॥ १ ॥</verse>
एवमार्यमिश्रान्विज्ञापयामि । अये, किन्नुखलु मयि विज्ञापनव्यग्रे
शब्द इव श्रूयते । अङ्ग ! पश्यामि ।
( नेपथ्ये )
एते स्मो भोः ! एते स्मः ।
सूत्रधारः - भवतु, विज्ञातम् ।
( प्रविश्य )
पारिपार्श्विकः- भाव कुतो नु खल्वेते,
<verse n="2" lang="sa">स्वर्गार्थमाहवमुखोद्यतगात्रहोमा<ref>२</ref>
नाराचतोमरशतैर्विषमीकृताङ्गाः ।
मत्तद्विपेन्द्रदशनोल्लिखितैः शरीरै-
रन्योन्यवीर्यनिकषाः पुरुषा भ्रमन्ति ॥ २ ॥</verse>
सूत्रधारः - मार्ष ! किं नावगच्छसि । तनयशतनयन<ref>३</ref>शून्ये दुर्योधनाव-
शेषे धृतराष्ट्रपक्षे, पाण्डवजनार्दनावशेषे युधिष्ठिरपक्षे, राज्ञां शरीर-
समाकीर्णे समन्तपञ्चके,
<footnote mark="१" lang="sa">शरास० ।</footnote>
<footnote mark="२">देहा ।</footnote>
<footnote mark="३" lang="sa">नयशून्ये ।</footnote>
</page>
<p
<ignore lang="sa">सूत्रधारः-</
<p
<subtitle lang="sa">॥
<p
<subtitle lang="sa">भासनाटकचक्रे</
<p