This page has not been fully proofread.


 
सूत्रधारः-
 
॥ f: ॥
 
भासनाटकचक्रे
 
ऊरुभङ्गम्।
 
(नान्द्यन्ते ततः प्रविशति सूत्रधारः । )
 
भीष्मद्रोणतटां जयद्रथजलां गान्धारराजहृदां
कर्णद्रौणिकृपोर्मिनक्रमकरां दुर्योधनस्रोतसं ।
 
तीर्णः शत्रुनदीं शरोसिसिकतां येन प्रवेनार्जुनः
 
शत्रूणां तरणेषु वः स भगवानस्तु वः केशवः ॥ १
एवमार्यमिश्रा विज्ञापयामि । अये, किन्नुखलु मयि विज्ञापनत्र्यमे
शब्द इव श्रूयते । अङ्ग ! पश्यामि ।
 
एते स्मो भोः ! एते स्मः ।
 
( नेपथ्ये )
 
सूत्रधारः - भवतु, विज्ञातम् ।
 
( प्रविश्य )
 
पारिपार्श्विकः- भाव कुतो नु खल्वेते,
 
स्वर्गार्थमाहवमुखोद्यतगात्र होमां
 
नाराचतोमरशतैर्विषमी कृताङ्गाः ।
 
मत्तद्विपेन्द्रदशनोल्लिखितैः शरीरै-
 
रन्योन्यवीर्यनिकषाः पुरुषा भ्रमन्ति ॥ २ ॥
 
सूत्रधारः - मार्ष ! किं नावगच्छसि । तनयशतनयनशून्ये दुर्योधनाव-
शेषे धृतराष्ट्रपक्षे, पाण्डवजनार्दनावशेषे युधिष्ठिरपक्षे, राज्ञां शरीर-
३ समाकीर्णे समन्तपञ्चके,
 
१. शरास० । २. देहा ।
 
उ. २८
 
३० नयशून्ये ।