2026-01-19 16:53:58 by akprasad
This page has been fully proofread once and needs a second look.
<page>

<stage>( प्रविश्य ब्राह्मणरूपेण )</stage>

<speaker>देवदूतः -</speaker>भोः कर्ण ! कवचकुण्डलग्रहणाज्जनितपश्चात्तापेन पुरंदरे-
णानुगृहीतोऽसि । पाण्डवेष्वेकपुरुषवधार्थममोघमस्त्रं विमला नाम
शक्तिरियं प्रतिगृह्यताम् ।

<speaker>कर्णः - </speaker>धिगूग्, दत्तस्य न प्रतिगृह्णामि ।

<speaker>देवदूतः - </speaker>ननु ब्राह्मणवचनाद् गृह्यताम् ।

<speaker>कर्णः - </speaker>ब्राह्मणवचनमिति । न मयातिक्रान्तपूर्वम् । कदा लभेय ।

<speaker>देवदूतः - </speaker>यदा स्मरसि तदा लभस्व ।

<speaker>कर्णः - </speaker>बाढम् । अनुगृहीतोस्मि । प्रतिनिवर्ततां भवान् ।

<speaker>देवदूत: - </speaker>बाढम् । <stage>( निष्क्रान्तः । )</stage>

<speaker>कर्णः - </speaker>शल्यराज ! यावद्रथमारोहावः ।

<speaker>शल्यः- </speaker>बाढम् । <stage>( रथारोहणं नाटयतः । )</stage>

<speaker>कर्णः - </speaker>अये शब्द इव श्रूयते । किं नु खल्विदम्

<verse lang="sa">शङ्खध्वनिः प्रलयसागरघोषतुल्यः
कृष्णस्य वा न तु भवेत्स तु फाल्गुनस्य
नूनं युधिष्ठिरपराजयकोपितात्मा
पार्थः करिष्यति यथाबलमद्य युद्धम् ॥ २४ ॥</verse>

शल्यराज ! यत्रासावर्जुनस्तत्रैव चोद्यतां मम रथः ।

<speaker>शल्यः -- </speaker>बाढम् ।

<stage>( भरतवाक्यम् )</stage>

<verse n="25" lang="sa">सर्वत्र सम्पदः सन्तु नश्यन्तु विपदः सदा ।
राजा राजगुणोपेतो भूमिमेकः प्रशास्तु नः ॥ २५ ॥</verse>

<stage>( निष्क्रान्तौ । )</stage>

<trailer>कर्णभारमवसितम् ।</trailer>
</page>

<stage>( प्रविश्य ब्राह्मणरूपेण )</stage>

<speaker>देवदूतः -</speaker>भोः कर्ण ! कवचकुण्डलग्रहणाज्जनितपश्चात्तापेन पुरंदरे-
णानुगृहीतोऽसि । पाण्डवेष्वेकपुरुषवधार्थममोघमस्त्रं विमला नाम
शक्तिरियं प्रतिगृह्यताम् ।

<speaker>कर्णः - </speaker>धि