This page has not been fully proofread.

४८६
 
कर्णभारे
 
( प्रविश्य ब्राह्मणरूपेण )
 
[i. 23. '—
 
देवदूतः -भोः कर्ण ! कवच कुण्डलग्रहणाज्जनितपश्चात्तापेन पुरंदरे -
३ णानुगृहीतोऽसि । पाण्डवेष्वेकपुरुषवधार्थम मोघमस्त्रं विमला नाम
शक्तिरियं प्रतिगृह्यताम् ।
 
कर्ण: - धिगू, दत्तस्य न प्रतिगृह्णामि ।
 
६ देवदूत: - ननु ब्राह्मणवचनाद् गृह्यताम् ।
 
कर्णः - ब्राह्मणवचनमिति । न मयातिक्रान्तपूर्वम् । कदा लभेय ।
देवदूत: - यदा स्मरसि तदा लभस्व ।
 
९ कर्णः - बाढम् । अनुगृहीतोस्मि । प्रतिनिवर्ततां भवान् ।
देवदूत: - बाढम् । (निष्क्रान्तः । )
 
कर्णः - शल्यराज ! यावद्रथमारोहावः ।
१२ शल्यः - बाढम् । ( रथारोहणं नाटयतः । )
 

 
कर्णः - अये शब्द इव श्रूयते । किं नु खल्विदम्
 
शङ्खध्वनिः प्रलयसागरघोषतुल्यः
 
कृष्णस्य वा न तु भवेत्स तु फाल्गुनस्य
नूनं युधिष्ठिरपराजयको पितात्मा
 
1
 
पार्थः करिष्यति यथाबलमद्य युद्धम् ॥ २४ ॥
 
शल्यराज ! यत्रासावर्जुनस्तत्रैव चोद्यतां मम रथः ।
 
शल्यः -- बाढम् ।
 
( भरतवाक्यम् )
 
सर्वत्र सम्पदः सन्तु नश्यन्तु विपदः सदा ।
राजा राजगुणोपेतो भूमिमेकः प्रशास्तु नः ॥ २५ ॥
( निष्क्रान्तौ । )
कर्णभारमवसितम् ।
 
१०