This page has been fully proofread once and needs a second look.

<page>
<verse lang="sa">देयं तथापि कवचं सह कुण्डलाभ्यां
प्रीत्या मया भग<ref>१</ref>वते रुचितं यदि स्यात् ॥ २१ ॥</verse>

<speaker>शक्रः- </speaker><stage>( सहर्षम् । )</stage> देदु, देदु । <chaya>[ ददातु ददातु । ]</chaya>

<speaker>कर्णः - </speaker><stage>( आत्मगतम् )</stage> एष एवास्य कामः । किं नु खल्वनेककपट-
बुद्धेः कृष्णस्योपायः । सोऽपि भवतु । धिगयुक्तमनुशोचितुम् ।
नास्ति संशयः । <stage>( प्रकाशम् )</stage> गृह्यताम् ।

<speaker>शल्यः -- </speaker>अङ्गराज ! न दातव्यं न दातव्यम् ।

<speaker>कर्णः - </speaker>शल्यराज ! अलमलं वारयितुम् । पश्य

<verse>शिक्षा क्षयं गच्छति कालपर्ययात्
सुबद्धमूला निपतन्ति पादपाः ।
जलं जलस्थानगतं च शुष्यति
हुतं च दत्तं च तथैव तिष्ठति ॥ २२ ॥</verse>

तस्मात् गृह्यताम् । <stage>( निकृत्य ददाति । )</stage>

<speaker>शक्रः-</speaker><stage>( गृहीत्वा आत्मगतम् । )</stage> हन्त गृहीते एते । पूर्वमेवा(हम?)-
र्जुनविजयार्थं सर्वदेवैर्यत् समर्थितं तदिदानीं मयानुष्ठितम् । तस्मा-
दहमप्यैरावतमारुह्यार्जुनकर्णयोर्द्वन्द्वयुद्धं पश्यामि । <stage>(निष्क्रान्तः । )</stage>

<speaker>शल्यः -- </speaker>भो अङ्गराज ! वञ्चितः खलु भवान् ।

<speaker>कर्णः - </speaker>केन ।

<speaker>शल्य:-- </speaker>शक्रेण ।

<speaker>कर्णः-</speaker>न खलु । शक्रः खलु मया वञ्चितः । कुतः,

<verse lang="sa">अनेकयज्ञाहुतितर्पितो द्विजैः
किरीटिमान् दानवसंघमर्दनः
सुरद्विपाम्फालनकर्कशाङ्गुलि-
र्मया कृतार्थः खलु पाकशासनः ॥ २३ ॥</verse>
<footnote mark="१" lang="sa">भगवतो ।</footnote>
</page>