This page has been fully proofread once and needs a second look.

―i. 23.]

प्रथमोऽङ्कः ।

<page>
<verse lang="sa">
देयं तथापि कवचं सह कुण्डलाभ्यां

प्रीत्या मया भग<ref>१</ref>वते रुचितं यदि स्यात् ॥ २१ ॥

1

</verse>

<speaker>
शक्रः- </speaker><stage>( सहर्षम् । )</stage> देदु, देदु । [ ददातु ददातु । ]

४८५

धिगयुक्तमनुशोचितुम् ।

<speaker>
कर्णः - </speaker><stage>( आत्मगतम् )</stage> एष एवास्य कामः । किं नु खल्वनेककपट-

बुद्धेः कृष्णस्योपायः । सोऽपि भवतु ।
धिगयुक्तमनुशोचितुम् ।
नास्ति संशयः । <stage>( प्रकाशम् )</stage> गृह्यताम् ।

<speaker>
शल्यः -- </speaker>अङ्गराज ! न दातव्यं न दातव्यम् ।

<speaker>
कर्णः - </speaker>शल्यराज ! अलमलं वारयितुम् । पश्य

<verse>
शिक्षा क्षयं गच्छति कालपर्ययात्

सुबद्धमूला निपतन्ति पादपाः ।

जलं जलस्थानगतं च शुष्यति

हुतं च दत्तं च तथैव तिष्ठति ॥ २२ ॥

</verse>

तस्मात् गृह्यताम् । <stage>( निकृत्य ददाति । )

</stage>

<speaker>
शक्रः-</speaker><stage>( गृहीत्वा आत्मगतम् । )</stage> हन्त गृहीते एते । पूर्वमेवा ( हम ? )-

र्जुनविजयार्थं सर्वदेवैर्यत् समर्थितं तदिदानीं मयानुष्ठितम् । तस्मा-

दहमप्यैरावतमारुह्यार्जुनकर्णयोर्द्वन्द्वयुद्धं पश्यामि । <stage>(निष्क्रान्तः । )
</stage>

<speaker>
शल्यः -- </speaker>भो अङ्गराज ! वश्विञ्चितः खलु भवान् ।

<speaker>
कर्णः - </speaker>केन ।

<speaker>
शल्य:- - - </speaker>शक्रेण ।

<speaker>
कर्णः-</speaker>न खलु । शक्रः खलु मया वञ्चितः । कुतः,

<verse lang="sa">
अनेकयज्ञाहुतितार्पितो द्विजैः

किरीटिमान् दानवसंघमर्दनः

सुरद्विपाम्फालनकर्कशाङ्गुलि-

1

र्म
या कृतार्थः खलु पाकशासनः ॥ २३ ॥

</verse>
<footnote mark="
. " lang="sa">भगवतो ।

</footnote>
</page>