This page has not been fully proofread.

―i. 23.]
 
प्रथमोऽङ्कः ।
 
देयं तथापि कवचं सह कुण्डलाभ्यां
 
प्रीत्या मया भगवते रुचितं यदि स्यात् ॥ २१ ॥
 
1
 
शक्रः- ( सहर्षम् । ) देदु, देदु । [ ददातु ददातु । ]
 
४८५
 
धिगयुक्तमनुशोचितुम् ।
 
कर्णः - ( आत्मगतम् ) एष एवास्य कामः । किं नु खल्वनेककपट-
३ बुद्धेः कृष्णस्योपायः । सोऽपि भवतु ।
नास्ति संशयः । ( प्रकाशम्) गृह्यताम् ।
शल्यः -- अङ्गराज ! न दातव्यं न दातव्यम् ।
६ कर्णः - शल्यराज ! अलमलं वारयितुम् । पश्य
शिक्षा क्षयं गच्छति कालपर्ययात्
सुबद्धमूला निपतन्ति पादपाः ।
जलं जलस्थानगतं च शुष्यति
 
हुतं च दत्तं च तथैव तिष्ठति ॥ २२ ॥
 
तस्मात् गृह्यताम् । ( निकृत्य ददाति । )
 
शक्रः-( गृहीत्वा आत्मगतम् । ) हन्त गृहीते एते । पूर्वमेवा ( हम ? )-
३ र्जुनविजयार्थं सर्वदेवैर्यत् समर्थितं तदिदानीं मयानुष्ठितम् । तस्मा-
दहमप्यैरावतमारुह्यार्जुनकर्णयोर्द्वन्द्वयुद्धं पश्यामि । (निष्क्रान्तः । )
शल्यः -- भो अङ्गराज ! वश्वितः खलु भवान् ।
 
६ कर्णः - केन ।
 
शल्य:- - शक्रेण ।
 
कर्णः-न खलु । शक्रः खलु मया वञ्चितः । कुतः,
 
अनेकयज्ञाहुतितार्पितो द्विजैः
 
किरीटिमान् दानवसंघमर्दनः
सुरद्विपाम्फालनकर्कशाङ्गुलि-
 
1
 
या कृतार्थः खलु पाकशासनः ॥ २३ ॥
 
१. भगवतो ।