This page has been fully proofread once and needs a second look.

<page>

<speaker>शक्रः-</speaker>अस्स त्ति । मुहुत्तअं आळुहामि । णेच्छामि कण्ण !
णेच्छामि । <chaya>[ अश्व इति । मुहूर्तकमारोहामि । नेच्छामि कर्णं !
नेच्छामि । ]</chaya>

<speaker>कर्ण:- </speaker>किं नेच्छति भगवान् । अन्यदपि श्रूयताम् ।

<verse lang="sa">मदसरितकपोलं षट्पदैः सेव्यमानं
गिरिवरनिचयाभं मेघगम्भीरघोषम् ।
सितनखदशनानां वारणानामनेकं
रिपुसमरविमर्दं वृन्दमेतद्ददामि ॥ २० ॥</verse>

<speaker>शक्रः-</speaker> गअ अत्ति । मुहुत्तअं आळुहामि । णेच्छामि कण्ण ! <error>ने</error><fix>णे</fix>च्छामि ।
<chaya>[ गज इति । मुहूर्तकमारोहामि । नेच्छामि कर्ण ! नेच्छामि । ]</chaya>

<speaker>कर्णः–</speaker>किं नेच्छति भवान् । अन्यदपि श्रूयताम् । अपर्याप्तं कनकं
ददामि ।

<speaker>शक्रः-</speaker> गहिअ गच्छामि । (<stage> किंचिद्गत्वा )</stage> णेच्छामि कण्ण !
णेच्छामि । <chaya>[ गृहीत्वा गच्छामि । नेच्छामि कर्ण ! नेच्छामि । ]</chaya>

<speaker>कर्णः- </speaker>तेन हि जित्वा पृथिवीं ददामि ।

<speaker>शक्रः- </speaker>पुहुवीए किं करिस्सम् । <chaya>[ पृथिव्या किं करिष्यामि । ]</chaya>

<speaker>कर्णः- </speaker>तेन ह्यग्निष्टोमफलं ददामि ।

<speaker>शक्र:-</speaker>अग्गिट्टोमफळेण किं कय्यं । <chaya>[ अग्निष्टोमफलेन किं कार्यम् । ]</chaya>

<speaker>कर्णः - </speaker>तेन हि मच्छरो ददामि ।

<speaker>शक्र: - </speaker>अविहा अविहा । <chaya>[ अविहा अविहा । ]</chaya>

<speaker>कर्णः - </speaker>न भेतव्यं न भेतव्यम् । प्रसीदतु भवान् । अन्यदपि श्रूयताम् ।

<verse n="21" lang="sa" merge-next="true">अङ्गैः सहैव जनितं मम देहरक्षा
देवासुरैरपि न भेद्यमिदं सहास्त्रैः ।</verse>
</page>