2026-01-01 22:46:50 by akprasad
This page has been fully proofread once and needs a second look.
प्रथमोऽङ्कः ।
४८३
<p lang="sa">भो कण्ण ! सुय्ये विअ, चन्दे विअ, हिमवन्ते विअ, सागळे विअ,
चिट्ठदु दे जसो । [ भोः कर्ण ! सूर्य इव, चन्द्र इव, हिमवान् इव,
६
सागर इव तिष्ठतु ते यश: । ]
<p lang="sa">कर्णः - भगवन् ! किं न वक्तव्यं दीर्घायुर्भवेति । अथवा एतदेव
शोभनम् । कुतः -
<verse lang="sa">धर्मो हि यत्नैः पुरुषेण साध्यो भुजंगजिह्वाचपला नृपश्रियः ।
तस्मात्प्रजापालनमात्रबुध्या हतेषु देहेषु गुणा धरन्ते ॥ १७ ॥
<p>भगवन्, किमिच्छसि । किमहं ददामि ।
<p lang="sa"><speaker>शक्रः - </speaker>महत्तरं भिक्खं याचेमि । [ महत्तरां भिक्षां याचे । ]
३
<p><speaker>कर्णः - </speaker>महत्तरां भिक्षां भवते प्रदास्ये । श्रूयन्तां मद्विभवाः ।
शक्रः
<p lang="sa">गुणवदमृतकल्पक्षीरधाराभिवर्षि
द्विजवर ! रुचितं ते तृप्तवत्सानुया<ref>१</ref>त्रम् ।
तरुणमधिकमर्थिप्रार्थनीयं पवित्रं
विहित
कः
<p lang="sa"><speaker>शक्रः - </speaker>गोसहस्सं त्ति । मुहुत्तअं खिरं पिबामि । णेच्छामि कण्ण !
णेच्छामि । [ गोसहस्रमिति । मुहूर्तकं क्षीरं पिबामि । नेच्छामि कर्ण !
३
नेच्छामि । ]
<p lang="sa"><speaker>कर्णः - </speaker>किं नेच्छति भवान् । इदमपि श्रूयताम् ।
<p lang="sa">रवितुरगसमानं साधनं राजलक्ष्म्याः
सकलनृपतिमान्यं मान्यकाम्बोजजातम् ।
सुगुणमनिलवेगं युद्धदृष्टापदानं
सपदि बहु सहस्रं वाजिनां ते ददामि ॥ १९ ॥
<footnote mark="१
6 ू
</page>