This page has not been fully proofread.

―i. 19.]
 
प्रथमोऽङ्कः ।
 
४८३
 
भो कण्ण ! सुय्ये विअ, चन्दे विअ, हिमवन्ते विअ, सागळे विअ,
चिट्ठदु दे जसो । [ भोः कर्ण ! सूर्य इव, चन्द्र इव, हिमवान् इव,
६ सागर इव तिष्ठतु ते यश: । ]
 
कर्णः - भगवन् ! किं न वक्तव्यं दीर्घायुर्भवेति । अथवा एतदेव
शोभनम् । कुतः -
 
धर्मो हि यत्नैः पुरुषेण साध्यो भुजंगजिह्वाचपला नृपश्रियः ।
तस्मात्प्रजापालनमात्रबुध्या हतेषु देहेषु गुणा धरन्ते ॥ १७ ॥
भगवन्, किमिच्छसि । किमहं ददामि ।
 
शक्रः - महत्तरं भिक्खं याचेमि । [ महत्तरां भिक्षां याचे । ]
३ कर्णः - महत्तरां भिक्षां भवते प्रदास्ये । श्रूयन्तां मद्विभवाः ।
 
शक्रः
 
गुणवदमृतकल्पक्षीरधाराभिवर्षि
 
द्विजवर ! रुचितं ते तृप्तवत्सानुयात्रम् ।
तरुणमधिकमर्थिप्रार्थनीयं पवित्रं
 
विहित कनकशृङ्गं गोसहस्रं ददामि ॥ १८ ॥
 
कः - गोसहस्सं त्ति । मुहुत्तअं खिरं पिबामि । णेच्छामि कण्ण !
च्छामि । [ गोसहस्रमिति । मुहूर्तकं क्षीरं पिबामि । नेच्छामि कर्ण !
३ नेच्छामि । ]
 
कर्णः - किं नेच्छति भवान् । इदमपि श्रूयताम् ।
 
रवितुरगसमानं साधनं राजलक्ष्म्याः
 
सकलनृपतिमान्यं मान्यकाम्बोजजातम् ।
 
सुगुणमनिलवेगं युद्धदृष्टापदानं
 
सपदि बहु सहस्रं वाजिनां ते ददामि ॥ १९ ॥
 
१. ० वत्सानुपातम् ।
 
6 ू