2026-01-01 22:38:44 by akprasad
This page has been fully proofread once and needs a second look.
<page>

<stage>( उभौ रथारोहणं नाटयतः । )</stage>

<speaker>कर्णः - </speaker>शल्यराज ! यत्रासावर्जुनस्तत्रैव चोद्यतां मम रथः ।

<stage>( नेपथ्ये )</stage>

भो कण्ण ! महत्तरं भिक्खं याचेमि । [ भोः कर्ण ! महत्तरां भिक्षां
याचे । ]

<speaker>कर्ण:-</speaker><stage>( आकर्ण्य )</stage> अये वीर्यवान् शब्दः ।

<verse n="15" lang="sa">श्रीमानेष न केवलं द्विजवरो यस्मात्प्रभावो महा-
नाकर्ण्य स्वरमस्य धीरनिन<ref>१</ref>दं चित्रार्पिताङ्गा इव ।
उत्कर्णस्तिभिताञ्चिताक्षवलितग्रीवार्पिताग्रानना-
स्तिष्ठन्त्यस्ववशांगयष्टि सहसा यान्तो ममैते हयाः ॥ १५ ॥</verse>

आहूयतां स विप्रः । न न । अहमेवाह्वयाभि । भगवन्नित इतः ।

<stage>( ततः प्रविशति ब्राह्मणरूपेण शक्रः । )</stage>

<speaker>शक्रः- </speaker>भो मेघाः ! सूर्येणैव निवर्त्य गच्छन्तु भवन्तः । <stage>( कर्णमुपगम्य )</stage>

<speaker>कर्णः - </speaker>दृढं प्रीतोऽस्मि भगवन् !

<verse n="16" merge-next="true">यातः कृतार्थगणनामहमद्य लोके
राजेन्द्रमौलिमणिरञ्जितपादपद्मः ।
विप्रेन्द्रपादरजसा तु पवित्रमौलिः
कर्णो भवन्तमहमेष नमस्करोमि ॥ १६ ॥</verse>

शक्रः-<stage>( आत्मगतम् )</stage> किं नु खलु मया वक्तव्यं, यदि दीर्घायुभवेति
वक्ष्ये दीर्घायुर्भविष्यति । यदि न वक्ष्ये मूढ इति मां परिभवति ।
तस्मादुभयं परिहृत्य किं नु खलु वक्ष्यामि । भवतु दृष्टम् । <stage>(प्रकाशम्)</stage>

<footnote mark="१" lang="sa">धीरमधुरं ।</footnote>
</page>