This page has been fully proofread once and needs a second look.

४८२

कर्णभारे

<page>

<stage>
( उभौ रथारोहणं नाटयतः । )

[ i. 14. —

</stage>

<speaker>
कर्णः - </speaker>शल्यराज ! यत्रासावर्जुनस्तत्रैव चोद्यतां मम रथः ।

<stage>
( नेपथ्ये )

</stage>

भो कण्ण ! महत्तरं भिक्खं याचेमि । [ भोः कर्ण ! महत्तरां भिक्षां

याचे । ]

<speaker>
कर्ण:-</speaker><stage>( आकर्ण्य )</stage> अये वीर्यवान् शब्दः ।

<verse n="15" lang="sa">
श्रीमानेष न केवलं द्विजवरो यस्मात्प्रभावो महा-

नाकर्ण्य स्वरमस्य धीरनिनेन<ref>१</ref>दं चित्रार्पिताङ्गा इव ।

उत्कर्णस्तिभिताञ्चिताक्षवलितप्ग्रीवार्पिताग्रानना-

स्तिष्ठन्त्य स्ववशांगयष्टि सहसा यान्तो ममैते हयाः ॥ १५ ॥

</verse>

आहूयतां स विप्रः । न न । अहमेवाह्वयाभि । भगवन्नित इतः ।

<stage>
( ततः प्रविशति ब्राह्मणरूपेण शक्रः 1 )

</stage>

<speaker>
शक्रः-

</speaker>भो मेघाः ! सूर्येणैव निवर्त्य गच्छन्तु भवन्तः । <stage>( कर्णमुपगम्य )
</stage>
भो कण्ण ! महत्तरं भिक्खं याचेमि । [ भोः कर्ण ! महत्तरां भिक्षां

याचे । ]

<speaker>
कर्णः - </speaker>दृढं प्रीतोऽस्मि भगवन् !

<verse n="16">
यातः कृतार्थगणनामहमद्य लोके

राजेन्द्रमौलिमणिरञ्जितपादपद्मः ।

विप्रेन्द्रपादरजसा तु पवित्रमौलिः

कर्णो भवन्तमहमेष नमस्करोमि ॥ १६ ॥

</verse>

शक्र:रः-<stage>( आत्मगतम् )</stage> किं नु खलु मया वक्तव्यं, यदि दीर्घायुभवेति

वक्ष्ये दीर्घायुर्भविष्यति । यदि न वक्ष्ये मूढ इति मां परिभवति ।

तस्मादुभयं परिहृत्य किं नु खलु वक्ष्यामि । भवतु दृष्टम् । <stage>(प्रकाशम्)
</stage>

<footnote mark="
. " lang="sa">धीरमधुरं ।

</footnote>
</page>