2025-12-29 10:00:58 by ambuda-bot
This page has not been fully proofread.
४८२
३
कर्णभारे
( उभौ रथारोहणं नाटयतः । )
[ i. 14. —
कर्णः - शल्यराज ! यत्रासावर्जुनस्तत्रैव चोद्यतां मम रथः ।
( नेपथ्ये )
६ भो कण्ण ! महत्तरं भिक्खं याचेमि । [ भोः कर्ण ! महत्तरां भिक्षां
याचे । ]
कर्ण:-( आकर्ण्य ) अये वीर्यवान् शब्दः ।
श्रीमानेष न केवलं द्विजवरो यस्मात्प्रभावो महा-
नाकर्ण्य स्वरमस्य धीरनिनेदं चित्रार्पिताङ्गा इव ।
उत्कर्णस्तिभिताचिताक्षवलितप्रीवार्पिताग्रानना-
स्तिष्ठन्त्य स्ववशांगयष्टि सहसा यान्तो ममैते हयाः ॥ १५ ॥
आहूयतां स विप्रः । न न । अहमेवाह्वयाभि । भगवन्नित इतः ।
( ततः प्रविशति ब्राह्मणरूपेण शक्रः 1 )
शक्रः-
:- भो मेघाः ! सूर्येणैव निवर्त्य गच्छन्तु भवन्तः । ( कर्णमुपगम्य )
३ भो कण्ण ! महत्तरं भिक्खं याचेमि । [ भोः कर्ण ! महत्तरां भिक्षां
याचे । ]
कर्णः - दृढं प्रीतोऽस्मि भगवन् !
यातः कृतार्थगणनामहमद्य लोके
राजेन्द्रमौलिमणिरञ्जितपादपद्मः ।
विप्रेन्द्रपादरजसा तु पवित्रमौलिः
कर्णो भवन्तमहमेष नमस्करोमि ॥ १६ ॥
शक्र:-( आत्मगतम् ) किं नु खलु मया वक्तव्यं, यदि दीर्घायुभवेति
वक्ष्ये दीर्घायुर्भविष्यति । यदि न वक्ष्ये मूढ इति मां परिभवति ।
३ तस्मादुभयं परिहृत्य किं नु खलु वक्ष्यामि । भवतु दृष्टम् । (प्रकाशम्)
१. धीरमधुरं ।
६