2026-01-01 23:07:47 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<verse lang="sa">इमे हि दैन्येन निमीलितेक्षणा
मुहुः स्खलन्तो विवशास्तुरङ्गमाः ।
गजाश्च सप्तच्छददानगन्धिनो
निवेदयन्तीव रणे निवर्तनम् ॥ ११ ॥</verse>

शङ्खदुन्दुभयश्च निःशब्दाः ।

<speaker>शल्य:- </speaker>भोः कष्टं किं नु खल्विदम् ।

<speaker>कर्णः - </speaker>शल्यराज ! अलमलं विषादेन ।

<verse n="12" lang="sa">हतोऽपि लभते स्वर्गं जित्वा तु लभते यशः ।
उभे बहुमते लोके नास्ति निष्फलता रणे ॥ १२ ॥</verse>

अपि च

<verse lang="sa">इमे<fix> </fix>हि युद्धेष्वनिवर्तिताशा
हयाः सुपर्णेन समानवेगाः ।
श्रीमत्सु काम्बोजकुलेषु जाताः
रक्षन्तु<ref>१</ref> मां यद्यपि रक्षितव्यम् ॥ १३ ॥</verse>

अक्षयोऽस्तु गोब्राह्मणानाम् अक्षयोऽस्तु पतित्रतानाम् । अक्षयोऽस्तु
रणेष्वपराङ्मुखानां यौधपुरुषाणाम् । अक्षयोऽस्तु मम प्राप्तकालस्य ।
एष भोः प्रसन्नोऽस्मि ।

<verse lang="sa">समरमुखमसह्यं पाण्डवानां प्रविश्य
प्रथितगुणगणाढयं धर्मराजं च बद्ध्वा ।
मम शरवरवेगैरर्जुनं पातयित्वा
वनमिव हतासिंहं सुप्रवेशं करोमि ॥ १४ ॥</verse>

शल्यराज ! यावद्रथमारोहावः ।

<speaker>शल्यः- </speaker>बाढम् ।

<footnote mark="१" lang="sa">रक्षन्त्यमी ।</footnote>
</page>