This page has been fully proofread once and needs a second look.

—i. 14.' ]

प्रथमोऽङ्कः ।

<page>
<verse lang="sa">
इमे हि दैन्येन निमीलितेक्षणा

मुहुः
स्खलन्तो विवशास्तुरङ्गमाः ।

मुहुः

गजाश्च सप्तच्छददानगन्धिनो

निवेदयन्तीव रणे निवर्तनम् ॥ ११ ॥

</verse>

शङ्खदुन्दुभयश्च निःशब्दाः ।

<speaker>
शल्य:- </speaker>भोः कष्टं किं नु खल्विदम् ।

<speaker>
कर्णः - </speaker>शल्यराज ! अलमलं विषादेन ।

<verse n="12" lang="sa">
हतोऽपि लभते स्वर्गं जित्वा तु लभते यशः ।

उभे बहुमते लोके नास्ति निष्फलता रणे ॥ १२ ॥

</verse>

अपि च

<verse lang="sa">
इमेहि युद्धेष्वनिवर्तिताशा

हयाः सुपर्णेन समानवेगाः ।

श्रीमत्सु काम्बोजकुलेषु जाताः

रक्षन्तु<ref>१</ref> मां यद्यपि रक्षितव्यम् ॥ १३ ॥

४८१

</verse>

अक्षयोऽस्तु गोब्राह्मणानाम् अक्षयोऽस्तु पतित्रतानाम् । अक्षयोऽस्तु

रणेष्वपराङ्मुखानां यौधपुरुषाणाम् । अक्षयोऽस्तु मम प्राप्तकालस्य ।

एष भोः प्रसन्नोऽस्मि ।

<verse lang="sa">
समरमुखमसह्यं पाण्डवानां प्रविश्य

प्रथितगुणगणाढयं धर्मराजं च बना 1
द्ध्वा ।
मम शरवर वेगैरर्जुनं पातयित्वा

वनमिव हतासिंहं सुप्रवेशं करोमि ॥ १४ ॥

</verse>

शल्यराज ! यावद्रथमारोहावः ।

<speaker>
शल्यः- </speaker>बाढम् ।

<footnote mark="
. " lang="sa">रक्षन्त्यमी ।

</footnote>
</page>