This page has not been fully proofread.

४८०
 
कर्णभारे
 
[i. 9.
 
शल्य: - ततस्ततः ।
 
कर्णः- ततः
 
६ वानस्मि ।
 
भगवन् अखिलान्यस्त्राण्युपशिक्षितुमिच्छामीत्युक्त-
 
शल्यः -- ततस्ततः ।
 
कर्णः-ततः उक्तोऽहं भगवता ब्राह्मणेषूपदेशं करिष्यामि न क्षत्रिया-
९ णामिति ।
 
शल्यः–अस्ति खलु भगवतः क्षत्रियवंश्यैः पूर्ववैरम् । ततस्ततः ।
१२ कर्णः - ततो नाहं क्षत्रिय इत्यस्त्रोपदेशं ग्रहीतुमारब्धं मया ।
 
शल्यः -- ततस्ततः ।
 
कर्णः - ततः कतिपयकालातिक्रमे कदाचित्फलमूलसमित्कुशकुसुमा-
१५ हरणाय गतवता गुरुणा सहानुगतोऽस्मि ।
 
शल्यः -- ततस्ततः ।
 
कर्णः- ततः स गुरुर्वनभ्रमणपरिश्रमान्मदङ्के निद्रावशमुपगतः ।
 
१८ शल्यः -- ततस्ततः ।
 
कर्ण:-
:- ततः
 
कृत्ते वज्रमुखेन नाम कृमिणा देवान्ममोरुद्वये
 
निद्राच्छेदभयादसह्यत गुरोधैर्यात्तदा वेदना ।
 
उत्थाय क्षतजाप्लुतः स सहसा रोषानलोद्दीपितो
 
बुध्वा मां च शशाप कालविफलान्यस्त्राणि ते सन्त्विति ॥१०॥
 
शल्यः - अहो कष्टमभिहितं तत्रभवता ।
 
कर्णः - परीक्षामहे तावदस्त्रस्य वृत्तान्तम् । ( तथा कृत्वा ) एतान्यस्त्राणि
३ निर्वीर्याणीव लक्ष्यन्ते । अपि च ।
 
१. आरब्धः ।