2026-01-19 16:48:57 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<verse lang="sa">अन्योन्यशस्त्रविनिपातनिकृत्तगात्र-
यौधाश्ववारणरथेषु महाहवेषु ।
क्रुद्धान्तकप्रतिमविक्रमिणो ममापि
वैधुर्यमापतति चेतसि युद्धकाले ॥ ६ ॥</verse>

भोः कष्टम् ।

<verse n="7" lang="sa">पूर्वं कुन्त्यां समुत्पन्नो राधेय इति विश्रुतः ।
युधिष्ठिरादयस्ते मे यवीयांसस्तु पाण्डवाः ॥ ७ ॥</verse>
<verse n="8">अयं स कालः क्रमलब्धशोभनो
गुणप्रकर्षो दिवसोऽयमागतः ।
निर<ref>१</ref>र्थमस्त्रं च मयाहि शिक्षितं
पुनश्च मातुर्वचनेन वारितः ॥ ८ ॥</verse>

भोः शल्यराज श्रूयतां ममास्त्रस्य वृत्तान्तः ।

<speaker>शल्यः - </speaker>ममाप्यस्ति कौतूहमेनं वृत्तान्तं श्रोतुम् ।

<speaker>कर्णः - </speaker>पूर्वमेवाहं जामदग्न्यस्य सकाशं गतवानस्मि ।

<speaker>शल्यः -- </speaker>ततस्ततः ।

<speaker>कर्णः - </speaker>ततः,

<pverse lang="sa">विद्युल्लताकपिलतुङ्गजटाकलाप-
मुद्यत्प्रभावलयिनं परशुं दधानम् ।
क्षत्रान्तकं मुनिवरं भृगुवंशकेतुं
गत्वा प्रणम्य निकटे निभृतः स्थितोऽस्मि ॥ ९ ॥</pverse>

<speaker>शल्यः- </speaker>ततस्ततः ।

<speaker>कर्णः - </speaker>ततो जमदग्निनो<ref>२</ref> ममाशीर्वचनं दत्वा पृष्टोऽस्मि । को भवान्
किमर्थमिहागत इति ।

<footnote mark="१" lang="sa">निरस्तमस्त्र ।</footnote>
<footnote mark="२">जामदग्न्येन ।</footnote>
</page>
<verse lang="sa">अन्योन्यशस्त्रविनिपातनिकृत्तगात्र-
यौधाश्ववारणरथेषु महाहवेषु ।
क्रुद्धान्तकप्रतिमविक्रमिणो ममापि
वैधुर्यमापतति चेतसि युद्धकाले ॥ ६ ॥</verse>

भोः कष्टम् ।

<verse n="7" lang="sa">पूर्वं कुन्त्यां समुत्पन्नो राधेय इति विश्रुतः ।
युधिष्ठिरादयस्ते मे यवीयांसस्तु पाण्डवाः ॥ ७ ॥</verse>
<verse n="8">अयं स कालः क्रमलब्धशोभनो
गुणप्रकर्षो दिवसोऽयमागतः ।
निर<ref>१</ref>र्थमस्त्रं च मयाहि शिक्षितं
पुनश्च मातुर्वचनेन वारितः ॥ ८ ॥</verse>

भोः शल्यराज श्रूयतां ममास्त्रस्य वृत्तान्तः ।

<speaker>शल्यः - </speaker>ममाप्यस्ति कौतूहमेनं वृत्तान्तं श्रोतुम् ।

<speaker>कर्णः - </speaker>पूर्वमेवाहं जामदग्न्यस्य सकाशं गतवानस्मि ।

<speaker>शल्यः -- </speaker>ततस्ततः ।

<speaker>कर्णः - </speaker>ततः,

मुद्यत्प्रभावलयिनं परशुं दधानम् ।
क्षत्रान्तकं मुनिवरं भृगुवंशकेतुं
गत्वा प्रणम्य निकटे निभृतः स्थितोऽस्मि ॥ ९ ॥</