This page has been fully proofread once and needs a second look.

--i, 93. ]

प्रथमोऽङ्कः ।

<page>
<verse lang="sa">
अन्योन्यशस्त्रविनिपातनिकृत्तगात्र-

यौधाश्ववारणरथेषु महाहवेषु ।

क्रुद्धान्तकप्रतिमविक्रमिणो ममापि

भोः कष्टम् ।

वैधुर्यमापतति चेतसि युद्धकाले ॥ ६ ॥

</verse>

भोः कष्टम् ।

<verse n="7" lang="sa">
पूर्वं कुन्त्यां समुत्पन्नो राधेय इति विश्रुतः ।

युधिष्ठिरादयस्ते मे यवीयांसस्तु पाण्डवाः ॥ ७ ॥
</verse>
<verse n="8">
अयं स कालः क्रमलब्धशोभनो

गुणप्रकर्षो दिवसोऽयमागतः ।

निर<ref>१</ref>र्थमस्त्रं च मयाहि शिक्षितं

पुनश्च मातुर्वचनेन वारितः ॥ ८ ॥
</verse>

भोः शल्यराज श्रूयतां ममास्त्रस्य वृत्तान्तः ।

<speaker>
शल्यः - </speaker>ममाप्यस्ति कौतूहमेनं वृत्तान्तं श्रोतुम् ।

<speaker>
कर्णः - </speaker>पूर्वमेवाहं जामदग्न्यस्य सकाशं गतवानस्मि ।

<speaker>
शल्यः -- </speaker>ततस्ततः ।

<speaker>
कर्णः - </speaker>ततः,

विद्युल्लता कपिलतुङ्गजटाकलाप-

मुद्यत्प्रभावलयिनं परशुं दधानम् ।

क्षत्रान्तकं मुनिवरं भृगुवंशकेतुं

गत्वा प्रणम्य निकटे निभृतः स्थितोऽस्मि ॥ ९॥

<speaker>
शल्यः- </speaker>ततस्ततः ।

४७९

<speaker>
कर्णः - </speaker>ततो जमदग्निनो<ref>२</ref> ममाशीर्वचनं दत्वा पृष्टोऽस्मि । को भवान्

किमर्थमिहागत इति ।

<footnote mark="
. " lang="sa">निरस्तमस्त्र । </footnote>
<footnote mark="
. ">जामदग्न्येन ।

</footnote>
</page>